________________
नवमं व्याख्यानम् ।
( ३५९) गृहं बभ्राम, कुत्रापि नो लेभे । आहारान्तरं लोकैर्दीयमानमपि तदासक्तत्वाद् ग्रहीतुं नाऽशकत् । इत्थं निशार्धपर्यन्तं भ्राम्यन् काप्यलभ. मानः कालातिक्रममजानश्च कस्याप्येकस्य श्रावकस्यौकसि समेत्य धर्मलाभोऽस्त्वित्युच्चैर्जगाद । तच्छ्रुत्वा श्रावकोऽचिन्तयत्-कोऽपि कर्मदोषेण भ्रान्तमनाः साधुरस्ति, इति विचिन्त्य समुत्थाय तमभिवन्य महातपस्विनमवगत्य व्याजहे-संयत ! किमपेक्षसे ?, साधुरजल्पत्सिंहकेशरियामोदकान् । श्रावकोऽवदत्-गृहे मे सन्ति भूयांसस्ते । इत्युक्त्वा भृतं स्थालं समानीय यथारुच्यलाभयत् । लब्ध्वा स्वास्थ्यं नीतं साधं सोऽपृच्छत्-स्वामिन् ! पुरिमार्थप्रत्याख्यानवेलाऽजायत न वा ?, निर्मलतारागणमाकाशे विलोक्य मुनिर्धिङ्मां योऽहं निशायामाहारार्थं निरगामिति भूयो भूयः स्वं निनिन्द । अयं महानर्थश्चक्रे, नाशितो मया स्वाचारः । इत्थं भृशं पश्चात्तापं विदधत्स नगराबहिरागत्य यथाविधि मोदकान् सञ्चूर्य कर्मणां जयः कठिनतरोऽस्ति, मयैतदतिगर्हितं लोकद्वयविरुद्धं व्यधायि, अमुना कृत्येन धर्मस्य महती निन्दाऽजनि । इत्यादि पश्चात्तापं वितन्वच्छक्लध्यानेन क्षपकश्रे णीमारुह्य केवलज्ञानमाप्नोत् । इत्थमन्येन साधुना साव्या वा लोभतः कदाचिदाहारादिकं नैव ग्राह्यमिति भावः ।
२५ प्रावृषि संस्थितः साधुः साध्वी च निजनिवासार्थ स्थानत्रयीं रक्षेत् । यदेकत्र जीवोत्पत्तौ सत्यां परस्मिँस्तिष्ठेत् , तत्रैकां यत्र स्वयं तिष्ठेत्तत्स्थानं प्रत्यहं त्रिवार प्रतिलेखयेत्प्रमार्जयेच्च । द्वे च प्रत्यहं सकृप्रतिलेखयेदिति वसतिप्रमार्जनविषया पञ्चविंशतितमा। ___ २६ प्रावृषि स्थितः साधुः साध्वी वा क्वचिजिगमिषेत्, तर्हि तां देशं तत्स्थानञ्च गुरुमुक्त्वा तदादेशं लात्वा गन्तुमर्हति । प्रावृषि साधवः साध्व्यो वा विशेषं तपो विदधानाः क्षीणा भवन्ति, अतो गुरुमुक्त्वैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org