SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ( २२८ ) श्रीकल्पसूत्रार्थप्रबोजिमी. " र्वेषां न्यायं विधाता अत्राऽवसरे शक्राssसनं चत्राल, तेन प्रभो राज्याभिषेकावसरमवधिना विदित्वा सुराधीशस्तत्राऽऽगत्य भगवन्तं मुकुटकुण्डलहारकेयूरादिनृपाऽऽभरणं परिधाप्य, शुभमुहूर्ते सिंहासनोपरि निवेश्य राज्याभिषेकमकरोत् । युगलनरास्तु प्रागेव शक्राऽऽदेशात्तीर्थोदकान्यानेतुमगच्छन् । जाते च प्रभोरभिषेके तीर्थजलान्यादाय समागतास्ते पुरुषा भगवन्तं सिंहासनासीनमालोक्य दध्युः - यदधुना भगवतः सर्वाङ्गं समलङ्कृतं दृश्यते, केवलं पदावेव तादृशीं शोभां न दधाते, इति विमृश्य समानीतोदकैः पदाम्बुजावेव स्नपयामासुः । अथैषामीदृशं विनयमवलोक्य ' एते विनीताः सन्तीत्यवधार्य तन्निवासार्थं विनीताभिधां नगरी निर्मातुं वैश्रमणदेवमादिदेश शक्रः । सोऽपि परित उच्चैस्तरां रम्यतरं परैरभेद्यं प्राकारं निर्माप्य तत्रेशानकोणे साप्तभौमं सद्रत्नजटितं सौवर्ण महोन्नतमेकं सौधं नाभिराजार्थं निरमीमपत् । पूर्वस्यां दिशि भरतचक्रिनिवासाय साप्तभौमं सौधम्, आग्नेयां बाहुबलये रम्यतमं सौधम्, मध्यभागे भगवतो निवासाय गगनलिहमेकविंशतिभौमं नानाविधसद्रत्नजटितं स्वर्णमयं महाभवनं कारितवानु इत्थं रमणीयैरष्टोत्तरशतजिन भवनैरलङ्कृतां, रत्नजटिततुङ्गतरभवनश्रेणीविभूपितां हस्त्यश्वरथपत्तिलक्षणचतुरङ्गचमूपरिशोभितां, वेसरोष्ट्रगोमहिषीप्रमुखचतुष्पदैः सुमण्डितां नानावापीकूपाऽऽरामतटाकादिभिः परिष्कृतां, चतुरशीतिचतुष्पथेषु सौगन्धिक- कान्दविक- ताम्बूलिक - सौवर्णिक - कौ सूदिक - कार्पासिक - तैलिक-सौत्रिक - रात्निक - गौधूमिक- कौशेयिकादीनां पण्यभवनश्रेणीविराजितां सर्वर्त्तसौख्यप्रदां द्वादशयोजनविस्तीर्णां नवयोजनाऽऽयतामष्टद्वारां विनीतानगरीं निरमिनोत् । " " ९४ पुंसां द्वासप्ततिकलानिरूपणम् अथैष भगवान् स्वप्रतिज्ञापालको महाचतुरः सर्वाधिकरूपलावण्यशाली सकलगुणसम्पन्नः सरलोऽतिविनीतो विंशतिलक्षपूर्वपर्यन्तं यौन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy