SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् ताभ्यामासादिसद्गंगांबुभुक्षुस्तत्र भुक्तवान् । श्रावको वाडवः स्नातुं गंगायां समुपाविशत् ।। ३३ ॥ स्नात्वा चिरं प्रतWशु भ्रांत्या पित्रादिकं मुदा । उच्छाल्य वारिवृदं च निर्जगाम ततो द्विजः ॥ ३४ ॥ यावद्भुक्त्वा स जैनश्च स्थितस्तावत्स आगतः । जैनेनावादि भो विप्र स्वोच्छिष्टं भुक्ष्व भावतः ॥ ३५ ॥ कथमित्थं वणिग्योग्यमित्युक्ते स जगौ वचः । गंगांबुमिश्रितं भोज्यं भुक्ष्व दोषो न तेंऽशतः ॥ ३६ ।। उच्छिष्टं च कथं योग्यं न शुद्ध तीर्थवारिणा । इति चेत्तहि पापस्य शोधकं तीर्थवार्कथम् ॥ ३७॥ स्नानेन यदि शुद्धिः स्यान्मीनधीवरदेहिनः । शुद्धाः स्नानेन नाकं चेद्यांतु ते त्रिदिवालयंम् ।। ३८ ॥ स्नानेनान्नं न चेद्योग्यं भक्तेस्तहि कथं भवेत् । शिवयोग्योनृणां देही पंचपापादिपीडितः ॥ ३६ ॥ तपोजपव्रतध्यानैरांतरी शुद्धिरीष्यते । क्षमया शुभभावेन न तु स्नानेन देहिनां ॥ ४० ॥ महापापमया जीवा अब्रह्मादिसमाकुलाः । न यांति स्नानतः शुद्धिमशुद्धा मद्यकुंभवत् ।। ४१ ॥ अवगाह्य चिरं ज्ञान तीर्थं ये शुद्धितां गताः । विना नीरेण ते शुद्धा आज्यकुंभा यथा सदा ॥ ४२ ॥ निशम्य तद्वचो विप्रस्तीर्थमौढ्यं निराकरोत । तत्रैवाथ च पंचाग्नि साधुनादुस्सहं तपः ॥ ४३ ॥ कुर्वतस्तापसस्यैव प्रज्वलद्वह्निवृदके । पतत्प्राणिविधातं च दर्शयामास तस्य सः ॥ ४४ ।। पाखंड्य मौढ्यमित्येवं तस्य तेन निराकृतं । वेदे या वीयते विप्रै हिंसावाक्यं भयप्रदं ।। ४५॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy