________________
२७६
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
अटव्यामेकदा सोऽटन्नालोक्यं द्वीपिनं परं । धावंतं सन्मुखं भीत्या रुरोह वरशाखिनं ॥३२५।। द्वीपी सोऽस्तंलभमानोऽपि परावृत्त्य जगाम च । उत्तीर्य वाडवस्तस्माद्गच्छंस्तं वीक्ष्य सस्मितः ॥३२६।। स्वंभादियोग्यमावेद्य समागत्य स्वमंदिरम् ।। आदाय परशु' गत्वा तत्र चिच्छेद शाखिनं ॥३२७।। आत्मनो रक्षणं यस्मात्तस्य छेदः कथं प्रभो । युक्तस्तस्य भवेन्नो वा कृतघ्नः सदृशात्मनः ॥३२८॥ उताचेत्थं वचो योगी वणिक् किल्बिषभाग्भवेत् । स नारयगति यात्युपकारकृद्विघातनात् ॥३२६।। नानावृद्ध विवृद्धां स कथामेकामबीभणत् । पताका तोरणोपेता परा द्वारवती पुरी ॥३३०॥ विपक्षपक्षसंभेदी विष्णुर्व्यापितसद्यशाः । पातितां सत्यभामाभीरुक्मिणीभिश्च मंडितः ।।३३१॥ पुष्पलाविमुखाच्छु त्वैकदा मुनि समागमं । वैकुंठो कुंठयत्कार्यं ददौ तस्मै धनादिकं ॥३३२।। चचाल चतुरैः संघश्चतुरंग बलान्वितः ।। बंदितुं मुनिनाथस्य भक्तितो विष्टरश्रवाः ।।३३३॥ प्रागत्य तत्र तं वीक्ष्य ज्ञानसागर सन्मुनिम् । ववंदे मुनिबक्त्रंदोः पपौ धर्मामृतं स कः ॥३३४॥ हृषीकेशो मुनि वीक्ष्य व्याधिस्थं कर्मवासितं । भिषजं स्वं पप्रच्छाशु व्याधिहानि कृते मुदा ॥३३५।। सोऽवादीद्रत्नकापिष्ट प्रयोगं विष्णुभूपतेः । संतुष्टो नगरं प्राप्तो भेषजं समचीकरत् ।।३३६॥ आहारार्थ स्थापकानन्यान्निवार्य वरभेषजं । रुक्मिण्य दत्तवान् भूपो मुन्योषधकृते तदा ॥३३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org