________________
२६४
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
सदोषमिति तं मत्वा तदा प्रभृति सजनाः । तस्मै तृणादि सद्ग्रासं ददते न कदाचनं ॥२५१।। ततो निर्घाट्यमानः स सचितः क्षीणविग्रहः । सहिष्णु रकृतं दोष हृदीति समतर्कयत् ।।२५२।। अहो ! दुर्लक्ष्यमेकं च स्त्रीचरित्रं विचित्रगं । देवानां योगिनां लोकेऽन्येषांनृणां कथं न हि ।।२५३।। कुर्वते योषितो नूनं कृतास्याकृतमेव च । उक्तं चानुक्तमेवात्र तच्च ते पापपंडिताः ।।२५४।। वादयंति नरं चान्यं वदंत्यन्यं स्वयं मुखे । ईक्षतेऽन्यं विकुर्वति विक्रियां कामलक्षितां ॥२५५।। आकारयंति चान्यं चा श्लिष्यंत्यन्यं कटाक्षतः । घातयंतेऽन्यमानिद्राः करोत्क्षेपं विकुर्वते ॥२५६।। अटत्यन्यत्र दृश्यतेऽन्यत्रान्यस्मै ददत्यपि । अन्यत्र याचयंते च दुर्लक्ष्या योषितो भुवि ।।२५७।। नाम्नेयमबला लोके न तु कृत्या कदाचन । कटाक्षाक्षेपतः सर्वं चालयति चलाचलं ॥२५८। शीततां वह्निराप्नोति सोष्णतां पद्मबांधवः । उदेति पश्चिमे सूर्यो ब्रते सत्यं न योषिता ।।२५६।। मुंचंति जननी तातं बांधवं वस्तु सद्म च ।। जन्मस्थानं नरा सक्ता योषितो दोष दूषिताः ॥२६०॥ कलंकयंति सद्गोत्रं सीमंतन्यः पराङ मखाः । साहसंति स्वघातार्थं घातयंति परं क्षणात् ॥२६१।। हित्वा वने गताः पूर्वं योगिनो योगपंडिताः । प्रतापदशिनीं तद्धि समीचीनं कृतं तकः ॥२६२॥ कापट्यपात्रमैवात्रानृतवाचालपंडिताः सदोषाः प्रत्ययतीता मदनैः कवलीकृताः ॥२६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org