________________
श्रेणिक पुराणम्
२४६
ये ये यत्र स्थितास्ते ते तत्र तत्र महादरात् । घनाघनभयान्नूनं तिष्ठति प्रीतिपीड़िताः ॥१४७॥ परदेश प्रिया नारी बलाका कृत ताड़कम् । स्वकांतगाढसंलीनं वीक्ष्येति सा व्यतर्कयत् ।।१४८।। इयं मत्तः पराधन्या विप्रलंभभवं कदा। दुःखं न सहते चाहं विप्रलंभप्रतारिता ।।१४६।। अयोगाकारधाराभिराधरेव वर्षति । श्राद्धराक्षिप्यमाणोऽहं जिनदत्तालये स्थितः ॥१५०॥ प्रावृट्योग व्यवस्थाप्य मया स्थायि सुयोगतः । जिनार्चास्नानचैत्यादि कारयता महोत्सवं ॥१५१।। एकदा निजपुत्रस्य भयात्सव्यसनात्मनः । कुबेरदत्तसंज्ञस्य दुर्ध्यानाहत चेतसः ॥१५२॥ ताम्रकुंभं समादाय श्रेष्ठी रत्नादिसंभृतं । मुनेनिकटमानीयं तदाऽधो गुप्तगुप्तके ॥१५३॥ विष्टराधस्तले तावद्गर्भ गृहविसंस्थितः । कूबेरो निक्षिपंतं तं ददर्श श्रेष्ठिनंक्षितौ ॥१५४॥ एकदा सततः काले गते कीयति पापधीः । निः काश्य स्वर्णकलशं लोभसंभिन्नमानसः ॥१५५।। अन्यत्राभीष्ट संस्थाने धृतस्तेन च पापिना। मुनिना वीक्ष्यमाणेन तूष्णीभावश्रितात्मना ।।१५६।। अथो वयं सुखेनैव कारयंतोऽर्थकर्णनम् । प्रावृट्कालं प्रपूर्याशु विनिवर्त्य सुयोगकं ॥१५७॥ अटामो मनसः शुध्या भव्योपदेशन कृते । ईर्यापथविशुद्धाढ्या आढ्येतराः विचारकाः ॥१५८॥ तावच्छष्ठी समुत्क्षिप्य धरां कुंभं सरत्नकं । अपश्यन्व्याकुलो जज्ञे व्यामोहाहतमानसः ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org