________________
श्रणिक पुराणम्
२०३
विमृश्येति निजे चित्ते जगाम विपिनं घनं । निग्रंथमुनिमासाद्य जग्राह परमं तपः ॥ ४६ ॥ नानाविधं तपः कुर्वन् द्विपक्षप्रोषधादिकं । शास्त्राध्ययनकर्मादि षड़ावश्यकतत्परः ॥ ४७ ।। एकदा भूपतिमित्रमपश्यंस्तद्गृहं गतः । कमपि पृष्टवान्वेगात्कुत्रास्ते मे सुहृत्प्रियः ॥ ४८ ॥ तेनाभाणि महाभूप जग्रहे तेन सत्तपः । वने गुरुसमीपेऽथाकर्ण्यति व्याकुलोऽभवत् ॥ ४६॥ कदाचित्स्वपुरोद्याने मत्वामित्रमुनि मुदा । आटितं परमं तोषमापेदे पंकजं यथा ॥ ५० ॥ संदाप्यानंदसद्भेरीमारुह्य गजमुन्नतम् । चचाल संपदा साकं सुमित्रो मंत्रिभिः पुनः ।। ५१ ॥ ततस्तद्वनमासाद्य समुत्तीर्यस्ववाहनात् । परीत्य तं मुनि भक्त्या नमन्नमितमस्तकः ॥ ५२ ।। भपोऽभाणीद्यते धीमन्राज्यं मे शुभायतम् । हित्वा त्वया तपस्तूर्णमंगीकार्यं तदर्द्धकम् ॥ ५३ ।। हित्वा दृष्टं शुभं राज्यं कोगृह्णाति तपः परम् । मुंच मुंच तपो मित्र समेहि मम पत्तनम् ॥ ५४ ।। इत्युक्ते मुनिनाथोऽसौ जगौ नरपते शृणु । परलोकहितायाहं जग्राह परमं तपः ॥ ५५ ॥ तपसा प्राप्यते नाकस्तपसा प्राप्यते सुखं । तपसा प्राप्यते राज्यं तपसा प्राप्यते शिवः ॥ ५६ ।। तपसा प्राप्यते वित्तं तपसा प्राप्यते यशः । न तितिक्षामि राजेंद्र तपोऽभ्युदयदायकं ।। ५७ ॥ भूपः पुनर्जगौ वाक्यं नो चेन्मम वचः कुरु । ममाहारकृते गेहया गंतव्यं यथा तथा ॥ ५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org