________________
२००
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
तदावनिपतिः प्राह स्वामिन्निः शेषवेदकः । भवमादिश मे पूर्वं कोऽहं कस्मात्समागतः ॥ २० ॥ समाधाय निजं चित्तं शृणु श्रेणिकभूपते । कथयिष्यामि योगींद्र इति वाचकथत्तदा ॥ २१ ॥ द्वीपे जंबूपदोपेते वृत्तनिर्जितचंद्रके । मेरुः सुदर्शनो नाम्ना समस्ति स्वर्णवर्णकः ॥ २२ ॥ अवाच्यां तस्य भरतं सस्यं भाति परोन्नतं । षट्खंडखंडसंशोभिशोभिताखिलभूतलम् ॥२३॥ तत्रार्यखंडमाभाति स्मार्यलोकैः समाकुलम् । निरालंबतया नाक खंडं भ्रष्टं बुधाश्रितं ॥ २४ ॥ सरकांतिसमोद्भासी सूरकांताऽभिधो नृप । नीवृत्तत्रास्ति विख्यातः ख्यातिव्याप्तजगत्रयः ।। २५ ॥ ग्रामारम्यसुरामाभी रमणीया मनोरमाः । हेमधामपरा यत्र सुसीमानो विशंति वै ॥२६॥ सस्यभृतो मनोऽभीष्टदायिनो वित्तपूरिताः । वर्त्तते निगमा यत्र भांडागाराश्च भूपतेः ॥ २७ ॥ तत्रास्ति परया भूत्या पुरं शूरपुरं परम् । विशालाति सद्दीर्घखातिकाभिरलंकृतं ॥ २८ ॥ आपण श्रेणिकायां च कृतरत्नसुराशयः । वेष्टिता जनया दोभिर्भाति रत्नाकराविलौ ॥ २६ ॥ यत्सौध शिखरे रूढाः सातकुंभसुकुंभकाः ।। दीप्यंत आगताश्चंद्राः सेवाय तत्पराजिताः ॥ ३० ॥ यत्र प्रासाददेशेषु कृता ने जनैर्मुदा। अर्चा जिनेशिनां पापशांतये स्युः स्फुरत्प्रभाः ।। ३१ ।। रम्यसौधस्थितानां च केकिनां घनशंकिकाम् । अकांडे तन्वते धूमाः कृष्णागुरुसमुद्भवाः ।। ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org