SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः] अष्टमी पूजाविधिविशिका [ ५५ अक्खयभावे भावो मिलिओ तब्भावसाहगो नियमा। न हु तंबं रसविद्धं पुणो वि तंबत्तणमुवेइ ॥१८॥ अक्षरगमनिका-अक्षयभावे भावो मिलितस्तद्भावसाधको नियमात्। न खलु तानं रसविद्धं पुनरपि ताम्रत्वमुपैति ।।१८| टीका-अक्षयभावे श्रीजिनसत्कक्षायिकवीतरागत्वसर्वज्ञत्वादिभावे भावो पूजकभावः पूज्यस्वरूपालम्बनाद् मिलितः अनुविद्धः समापत्त्या तद्भावसाधकः श्रीजिनगतवीतरागत्वादिभावनिष्पादको नियमाद् भवति। अत्रार्थ व्यतिरेकेण दृष्टान्तमाह-न नैव खलुरवधारणे तानं धातुविशेषो रसविद्धं स्वर्णरसमिलितं पुनरपि महरपि ताम्रत्वं ताम्रस्वरूपम उपैति प्राप्नोति। श्रीजिनभावस्वर्णरसविद्धं जीवात्मस्वभावतानं पुण्यानुबन्धिपुण्यसम्पद्लाभेन जायतेऽप्रतिहतं श्रीजिनभावस्वर्णम्। एकदा श्रीजिनभावस्वर्णीभूतं न पुनः कदापि भवति संसारिताम्रस्वरूपेणेत्यर्थः ।।१८।। साम्प्रतं हेतुपुरस्सरं कर्तव्यतया पूजामाह तम्हा जिणाण पूया बुहेण सब्बायरेण कायवा। परमं तरंडमेसा जम्हा संसारजलहिम्मि ॥१६॥ अक्षरगमनिका-यस्मात् संसारजलधौ परमं तरण्डमेषा तस्मात् जिनानां पूजा बुधेन सर्वादरेण कर्तव्या।।१६॥ टीका-यस्मात् कारणात् पूजातो जायमानो भावः अक्षयभावसाधकत्वेन संसारजलधौ भवोदधौ परमं सर्वोत्कृष्टं तरण्डं द्रोणिः एषा अनन्तरोक्तस्वरूपा जिनानां क्षीणरागद्वेषाणां पूजा-सपर्या तस्मात् कारणाद् बुधेन-पण्डितेन सर्वादरेण कृत्स्नश्रद्धया कर्तव्या विधातव्या। तदुक्तं ग्रन्थकृतैव षोडशके—देवगुणपरिज्ञानात् तद्भावानुगतमुत्तमं विधिना। स्यादादरादियुक्तं, यत्तद्देवतार्चनं चेष्टम् ।।।१।।।।१६।। उपसंहरन्नाह एवमिह दव्वपूया लेसुद्देसेण दंसिया समया। इयरा जईण पाओ जोगाहिगारे तयं वुच्छं ॥२०॥ इति पूजाविधिविंशिका अष्टमी ।।८।। __ अक्षरगमनिका-एवमिह द्रव्यपूजा लेशोद्देशेन दर्शिता समयात्। इतरा यतीनां प्रायस्तकां योगाधिकारे वक्ष्ये ॥२०॥ टीका-एवम् उक्तनीत्या इह प्रकरणे द्रव्यपूजा पुष्पादिद्रव्यप्रधानपूजा लेशोद्देशेन संक्षिप्तवक्तव्येन दर्शिता निरूपिता समयात् शास्त्रात्। इतरा भावपूजा प्रायो बाहुल्येन यतीनां साधूनां तकां तां भावपूजां योगाधिकारे योगप्रस्तावे वक्ष्ये निरूपयिष्यामीति ||२०|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy