________________
विंशतिर्विशिकाः ] षोडशी प्रायश्चित्तविंशिका
[ १०३ दुष्कृतरूपमुभयम्। तथा विवेकस्त्यागः अनेषणीयाशनादीनाम् । तथा समुच्चये व्युत्सर्गः कायोत्सर्गश्चेष्टानिरोधकल्पः। तथा तपः प्रतीतं निर्विकृतिकादि। तथा छेदस्तपसा दुर्दमस्याऽहोरात्रपञ्चकादिक्रमेण व्रतपर्यायच्छेदनम्। तथा मूलं महाव्रतानां मूलतः पुनरारोपणम्। तथाऽनवस्थाप्यता व्रतेषु पुनरवस्थाप्यत इत्यवस्थाप्यो न तथाऽनवस्थाप्यस्तस्य भावः अनवस्थाप्यता दुष्टतरपरिणामस्याऽकृततपोविशेषस्य व्रतेष्वनारोपणम्। चः समुच्चये। तथा पाराञ्चिकं पारमन्तं प्रायश्चित्तानामपराधानां वाऽञ्चति गच्छतीति पाराञ्चि तदेव पाराञ्चिकमिति ।।६।। अथाऽमीषां प्रत्येकं स्वरूपमाह--
वसहीओ हत्थसया बाहिं कजे गयस्स विहिपुव्वं ।
गमणाइगोयरा खलु भणिया आलोयणा गुरुणा ॥७॥ अक्षरगमनिका-वसतेर्हस्तशताबहिर्विधिपूर्वं कार्ये गतस्य गमनादिगोचरा खलु भणिताऽऽलोचना गुरुणा ||७||
टीका-वसतेः प्रतिश्रयादेः हस्तशताद् हस्तशतप्रमाणभूमेरूज़ बहिबर्बाह्यं विधिपूर्वम् आगमोक्तनीत्या कार्ये भिक्षाटनविहारभूमिगमनादिप्रयोजनमाश्रित्य गतस्य यातस्य गमनादिगोचरा यातायातादिविषयैव खलुशब्दोऽवधारणे भणिता विहिता आलोचना पूर्वोक्तस्वरूपैव प्रायश्चित्तं गुरुणा जगद्गुरुणा भगवता वर्धमानेनेति ।।७।। अथ प्रतिक्रमणमाह
सहस चिय अस्समियाइभावगमणे य चरणपरिणामा। __ मिच्छादुक्कडदाणा तग्गमणं पुण पडिक्कमणं ॥६॥ अक्षरगमनिका-चारित्रपरिणामात् सहसैवाऽसमितादिभावगमने मिथ्यादुष्कृतदानात् पुनस्तद्गमनं प्रतिक्रमणम् ।। ८॥
टीका—चारित्रपरिणामात् समितिगुप्तिलक्षणसंयमभावाद् बहिः सहसैवाऽतर्कित एव कासक्षुतादौ असमितादिभावगमने असमितः समितिषु प्रमत्त आदिपदादगुप्तो गुप्तिषु प्रमत्तस्तस्य भावस्तत्राऽसमितत्वादौ गमने याने पश्चात्तापेन मिथ्यादुष्कृतदानाद् मिथ्याऽलिकं मे दुष्कृतं पापं भूयादित्युच्चारणात् तद्गमनं पुनश्चारित्रपरिणामं प्रति गमनं क्रमणं प्रतिक्रमणं प्रायश्चित्तमिति ।।८।। अथ मिश्रमाह
सद्दाइएसु ईसि पि इत्थ रागाइभावओ होइ।
आलोयणा पडिक्कमणयं च एवं तु मीसं तु॥६॥ अक्षरगमनिका—अत्र शब्दादिकेषु ईषद्रागादिभावतोऽपि भवत्यालोचना प्रतिक्रमणं चैतत्तु मिश्रं तु ||६|
टीका-अत्र चारित्रपरिणामधर्मे प्रायश्चित्ताऽधिकारे वा शब्दादिकेषु शब्दरूपप्रभृतिषु मनोज्ञाऽमनोज्ञविषयेषु ईषद्रागादिभावतोऽपि आस्तां तीव्ररागद्वेषादिभावो मनोमात्रेण स्वल्परागद्वेषादिभावतोऽपि भवति आपद्यते आलोचना प्रायश्चित्तं प्रतिक्रमणं प्रायश्चित्तं च, एतत्तु उभयं पुनर्मित्रमेव प्रायश्चित्तं तुशब्दोऽवधारणे ||६|| अथ विवेकमाह
असणाइगस्स पायं अणेसणीयस्स कह वि गहियस्स। संवरणे संचाओ एस विवेगो उ नायव्वो॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org