________________
विंशतिर्विशिकाः ] पञ्चदशी आलोचनाविधानविंशिका
[६६ परम्पराम्। अत एवाह-दुर्लभबोधित्वमसुलभजिनधर्मताम् अनन्तसांसारिकत्वं चानन्तभवभ्रमणं करोति । भावशल्योद्धारे तु जीवः स्वल्पसंसारी स्याद् यत आलोचनापरिणामपरिणतो जीवः कदाचित् क्षीण आयुषि मृतः सन्नपि उत्कृष्टतस्त्रीन् भवान् कृत्वा प्राप्नोति निर्वाणम् । यदागम :-आलोयणा परिणओ सम्मं काऊण सुविहिओ कालं। उक्कोसं तिण्णि भवे गंतूण लभेज निव्वाणं ।।१।।१५।। यत एवं ततः श्रमणाः किं कुर्वन्तीत्याह
तो उद्धरंति गारवरहिया मूलं पुणब्भवलयाणं।
मिच्छइंसणसल्लं मायासल्लं नियाणं च॥१६॥ अक्षरगमनिका-ततो गौरवरहिता उद्धरन्ति पुनर्भवलतानां मूलं मायाशल्यं निदानं मिथ्यादर्शनशल्यं च ।।१६।।
टीका-यतः शल्योद्धारेऽनुद्धारे चानन्तरोक्तगुणदोषास्ततस्तस्मात् कारणात् श्रमणा गौरवरहिता ऋद्धयादिगौरवविप्रमुक्ता उद्धरन्ति चारित्रदेहान्निष्कासयन्ति पुनर्भवलतानां पुनर्मुहुर्मुहुर्भवा जन्मानि त एव लतास्तासां मूलम् प्राथमिककारणं भावशल्यं तच्च त्रिविधम्, तथाहि-मायाशल्यं माययाऽऽलोचनतोऽनालोचनतश्च विहितं शल्यं दुश्चरितं तथा निदानं भीमो भीमसेन इति न्यायाद् निदानशल्यं नितरां दीयतेऽनेनेति निदानं धर्मस्य सांसारिकफलयाचनं तदेव शल्यम् उक्तस्वरूपं तथा मिथ्यादर्शनशल्यं मिथ्यादर्शनं श्रीजिनोक्तादन्यथा श्रद्दधानं तदेव शल्यं भगवत्यविश्वासाद् महत्याशातनेति। चः समुच्चये। एतत्रिविधमपि भावशल्यं मायामदविप्रमुक्ताः श्रमणा उद्धरन्तीति ।।१६।। अनुद्धृते शल्येऽत्रैव भवे यद्भवति तदाह
चरणपरिणामधम्मे दुचरियं अद्धिइं दढं कुणइ।
कह वि पमायावट्टिय जाव न आलोइयं गुरुणो॥१७॥ अक्षरगमनिका-चरणपरिणामधर्मे कथमपि प्रमादावर्तितं दुश्चरितं यावन्नालोचितं गुरोरधृतिं दृढां करोति ।। १७॥
टीका-चरणपरिणामधर्मे चरणं चारित्रं तस्य परिणामः परिणमनं स एव दुर्गतौ पतन्तं जन्तुं धारणाद् धर्मस्तस्मिन् कथमपि केनापि प्रकारेण प्रमादावर्तितं प्रमादेन, तथाहि-रागेण वा द्वेषेण वा मोहेन वा जानता वाऽजानता वाऽऽवर्तितं मुहुर्मुहुरासेवितं दुश्चरितं दुरनुष्ठितं यावदवधि नालोचितं न कथितं गुरोराचायदिस्तावद् अधृतिम् अधैर्यं दृढां निबिडां करोति विदधाति। जीवमत्यन्तमस्वस्थं करोतीत्यर्थः । तस्मात् सशल्येन क्षणमप्येकं न स्थातव्यमिति ॥ १७॥ एतदेवाह
जं जाहे आवजइ दुचरियं तं तहेव जत्तेणं।
आलोएयव्वं खलु सम्मं सइयारमरणभया॥१८॥ अक्षरगमनिका—सातिचारमरणभयाद् यदुश्चरितं यदाऽऽपद्यते तत्तदैव यलेन खलु सम्यगालोचयितव्यम् ।।१८||
टीका–सातिचारमरणभयाद् अनालोचितत्वाद् अतिचारेण सह सातिचारं च तन्मरणं सातिचारमरणं तस्मात्तस्य कटुविपाकाद्वा भयं भीतिस्तस्माद् यहुश्चरितं यदुरनुष्ठितं यदा यस्मिन् काले आपद्यते जायते तद्दुश्चरितं तदैव तस्मिन्नेव काले यत्नेन प्रयलेनैव खलुशब्दोऽवधारणे सम्यग् अवितथम् आलोचयितव्यं गुरोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org