SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः ] पञ्चदशी आलोचनाविधानविंशिका [ ६७ टीका-एषः अनन्तरोक्तसिद्धकर्मा गुरुः पुनःशब्दो विशेषे नियमेन नियोगेन गीतार्थादिगुणसंयुक्तो गीतः अध्ययनाध्यापनपरिशीलनादिना सात्मीभावं नीतः अर्थ आगमार्थो येन स गीतार्थस्तस्य भावो गीतार्थत्वम्, आदिपदात् संविग्नत्वादिगुणैः संयुक्तः समन्वित एव । धर्मकथाप्रक्षेपकविशेषतो भावनिर्देशाद् धर्मकथया प्रक्षेपकत्वगुणविशेषात् सदृष्टान्तमालोचनादाने निःशल्यत्वचारित्रशुद्धिचित्तप्रसादादिमोक्षाऽवाप्तिपर्यन्तान् गुणान् प्रदाऽनालोचिते च सशल्यत्वे भयङ्करभवपरम्परां प्रदर्श्य श्रोतॄणां स्वदुश्चरितकथनं प्रति भावोल्लासनगुणविशेषादेव तुशब्दोऽवधारणे भवति जायते विशिष्ट उत्तम इति ||८|| किञ्च धम्मकहाउजुत्तो भावनू परिणओ चरित्तम्मि। संवेगवुडिजणओ सम्मं सोमो पसंतो य॥६॥ अक्षरगमनिका—धर्मकथोद्युक्तो भावज्ञश्चारित्रे परिणतः सम्यक् संवेगवृद्धिजनकः सौम्यः प्रशान्तश्च ||६|| टीका-धर्मकथोयुक्तो धर्मकथायां दृष्टान्तपुरस्सरमैहिकपारलौकिकान् दुर्भिक्षदुर्बलत्वदुर्लभबोधिकत्वादीनपायान् प्रदाऽऽलोचनादापनायोधुक्तस्तत्परः, तथा भावज इङ्गितादिभिः परचेतोनिश्चायकः अत एव प्रायश्चित्तदाने समर्थः, तथा चारित्रे संयमे ज्ञानाऽऽसेवाभ्यां परिणतः अपरिणतत्वातिपरिणतत्वदोषपरिहारेण सात्मीभूतचारित्र आज्ञानुसारिणीचर्यावानित्यर्थः अत एव श्रद्धेयत्वात् सम्यग् अवितथभावेन संवेगवृद्धिजनको भवभीरुतावर्धको मोक्षतीव्राभिलाषजनको वा भावाद्भावप्रसूतिरिति, तथा सौम्यः प्रकृत्याकारवाणीव्यवहारैर्मूदुः, अत एवादरणीयः तथा प्रशान्तस्तथाविधकषायोपशमादन्तो बहिश्च प्रशमगुणान्वितः शीतगृहादप्यधिकः शीत इत्यर्थः, चः समुच्चये। एतद्गुणगणसमलङ्कृतो नियमेन विशिष्टो भवतीति ||६|| अथैतादृशे गुरौ कीदृशेनाऽऽलोचयितव्यमित्याह एयारिसम्मि नियमा संविग्गेणं पमायदुचरियं । अपुणकरणुज्जएणं पयासियवं जइजणेणं ॥१०॥ अक्षरगमनिका—एतादृशे संविग्नेनाऽपुनःकरणोद्यतेन यतिजनेन नियमात् प्रमाददुश्चरितं प्रकाशयितव्यम् ॥१०॥ टीका-एतादृशे अनन्तरगाथाद्वयोक्तगुणविशिष्टगुरुपार्थे संविग्नेन भवभीरुणा संविग्नस्यैव दुष्कराऽऽलोचनादानं यदागमः- “अवि राया चए रज्जं न य दुच्चरियं कहे" तथाऽपुनःकरणोयतेन पुनर्मुहुः करणं विधानं पुनःकरणं, न पुनःकरणम् अपुनःकरणं प्रकाशिताऽपराधस्य, तत्रोद्यतेन दृढसङ्कल्पबलादिना प्रयलवता यतिजनेन साधुलोकेन नियमादवश्यंतया प्रमाददुश्चरितं विषयकषायादिप्रमाददोषाद् जातं दुश्चरितं दुरनुष्ठितं प्रकाशयितव्यम् आलोचयितव्यमिति ॥१०॥ अथ कथमालोचयितव्यमित्याह जह बालो जंपंतो कजमकजं च उजुयं भणइ। तं तह आलोइजा मायामयविप्पमुक्को य॥११॥ अक्षरगमनिका-यथा बालः कार्यमकार्यं च जल्पन् ऋजुकं भणति तथा तन्मायामदविप्रमुक्तश्चालोचयेत् ॥११॥ टीका-यथा येन प्रकारेण मात्रादिकं प्रति बालः शिशुः कार्य कृत्यम् अकार्यं निन्द्यकर्म चः वि. १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy