________________
प्रथम संस्करण
आमुखम् मया कविवर्य - श्री १०८ श्रीमुनिज्ञानसागरमहाराज - विरचितं द्वाविंशतिसर्गात्मकं 'वीरोदय' नाम महाकाव्यमवलोकितम् । तेन मे मनसि महान् सम्मदः समजनि । यतः प्राक्कालिक-कविवर-कालिदासभारविमाघ-श्रीहर्षादिभिरनेकानि काव्य-नाटकदीनि विरचितानि सन्ति, किन्तु तदनन्तरं कश्चिदपि कविरेतादृशं सकलगुणालङ्कारभूषितं महाकाव्यमरीरचदिति न मे दृष्टिपथं समायाति । एतादृशाद्भुतमहाकाव्यप्रणेतारः श्रीमुनिवर्याः समस्तसंस्कृतविचक्षणानां धन्यवादार्हा इति निश्चप्रचम् ।
निखिलरसभावगुणालङ्कारालङ्कृतमेतन्हाकाव्यंकुण्डिननगर-वास्तव्य - क्षत्रियनृपमुकुटमणि - श्रीसिद्धार्थराजकुमार श्री महावीरं नायकीकृत्य संग्रथितं विद्वत्तल्लजैः श्री कविकुलालङ्कारभूतैर्मुनिवर्यैः । अयमेव श्रीमहावीरः स्वीयाद्ध तवैराग्यशमदमादितपोबलेन जैनसमाजे चतुर्विंशतीर्थङ्करत्वमलभत । अयमेवास्य महाकाव्यस्य धीरोदात्तः, दयावीरः , धर्मवीरश्च नायकायते । 'सर्गब-धो' महाकाव्यम' इत्यभियुक्तोत्तया महाकाव्यस्याखिललक्षणानि ग्रन्थेऽस्मिन् वरीवर्तन्ते ।
__ अस्यानुशीलनेन ग्रन्थकर्तुःप्रगल्भपाण्डित्यं कवित्वशक्तिश्च स्पष्टमनुमीयते । एतदध्ययनेन प्राक्तनकवयोऽध्येतृणां स्मृतिपथमायान्ति । तथाहि - एतावान् प्रौढपाण्डित्यसम्पन्नोऽपि कविः प्रथमसर्गस्य सप्तमे पद्ये - 'वीरोदयं यं विदधातुमेव न शक्तिमान् श्रीगणराजदेवः' इति वर्णयन् स्वीयविनीततामाविष्करोति । अनेन 'क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः इति निगदन् कालिदासः स्मर्यते ।। ___ शान्तरसप्रधानमपीदं महाकाव्यं प्रायोऽनेकरसभामावगुणालङ्कारान् विभर्ति । नायकजन्मसमये श्रीदेवी नामागमन, तासां मातृपरिचर्या, रत्नवृष्टि, इन्द्रादिसुरगणानुष्ठितः प्रचुरमोदभारभासुरो महाभिषेक-इत्यादि वर्णनानि नायकस्य सर्वैश्वर्यसम्पन्नत्वमाधिदैविकवैभवञ्च प्रकटयन्ति । द्वितीयसर्गे जम्बूद्वीपादिवर्णनं श्रीहर्षस्य विदर्भनगरवर्णनं स्मारयति। एवमेव कविना महाकाव्येऽस्मिन्नायकजीवनचरितं वर्णयता स्थाने स्थाने कविसम्प्रदायानुसारं नगरवर्णन, ऋतुवर्णनं, सन्ध्यावर्णनमित्यादि सुललितगीर्वाणवाण्या सन्निबद्धं कस्य काव्यकलारसिकसहदयस्य मानसं नाह्लादयति ।
नैषधीयचरिते यथा श्रीहर्षमहाकविना प्रतिसर्गान्तं तत्तत्सर्गविषयवर्णन-पुरस्सरं स्वीयप्रशस्तिपद्यमुट्टङ्कितं तथैवास्मिन् महाकाव्येऽपि महाकविमुनिवर्यैः सन्दब्धम् । तथा तृतीयसर्गस्य ३० तमे पद्ये महाकवेः, 'अधिीतिबोधाचरणप्रचारैः' इति वर्णनं नैषधीयचरित्रस्य प्रथमसर्गे चतुर्थपद्ये 'अधीतिबौधाचरणप्रचारणैर्दशाश्चतस्त्रः प्रणयन्नुपाधिभिः' इति स्मारयति।
एवमेव द्वितीयसर्गे जम्बूद्वीपवर्णने, 'हिमालयोल्लासिगुणः स एष द्वीपाधिपस्येव धनुर्विशेषः' एतत्पद्य महाकविश्रीकालिदास विरचित-कुमारसम्भवीयम्, 'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराज' इति पद्यं स्मृतिविषयीकरोति । तथापि तदपेक्षयाऽत्रा स्ति कश्चिद्विशेषः । तथाहि-श्री कालिदासेन तु केवलं पूर्वापरसमुद्रावगाही हिमालयः पृथिव्या मानदण्डरुपेणैवोत्प्रेक्षित: । किन्तु महाकाव्येऽस्मिन् मुनिव्यविशेषाभिप्रायेण हिमालयो धनुर्गुणरुपेण वर्णितः । सागर एव तस्य वंश-दण्डः । इत्थेमेतद् भारतवर्ष जम्बूद्वीपे धनूरूपं विज्ञेयमिति तेषामभिप्रायः । अनेनास्य देशस्य विशिष्टक्षात्रशौर्यसम्पन्नत्वं प्रतीयते । अतएवास्मिन्नेव देशे वृषभादि-वीरान्तीर्थङ्करादि सदृशा लोकोत्तरा महावीराः पुरुषपुङ्गवाः समजायन्त, सञ्जायन्ते, सञ्जनिष्यन्ते चेति प्रतीयमानार्थः सहृदयैरनुभाव्यते।
इत्थमेव भट्टिकाव्ये ४६ तमे पद्ये यथा श्री भट्टिकविना, न तज्जलं यन्न सुचारुपङ्कजम्' इत्यादि पद्यमेकावल्यलङ्कारलंकृतं केवलं प्राकृतिसौन्दर्यवर्णनमात्रमुद्दिश्य सन्निबद्धं । तथैवात्र महाकाव्ये द्वितीयसर्गस्य ३८ तमे पद्येऽपि महामुनिभिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org