SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ समर्पणम् । अनन्तोपकारि-पूज्यपाद-गुरुदेव - मुनिराज श्री १००८ भुवनविजयजी महाराज ! बहुपुण्याश्रितं दत्त्वा दुर्लभं नरजन्म मे । लालन पालनां पुष्टिं कृत्वा वात्सल्यतस्तथा ॥ १ ॥ वितीर्य धर्मसंस्कारानुत्तमाँथ गृहस्थितौ । भवद्भिः सुषितृत्वेन सुबहूपकृतोऽस्म्यहम् || २ || ततो भवद्भिः प्रव्रज्य भगवच्यागवर्त्मनि । अहमप्युद्धतो मार्ग तमेवारोध पावनम् || ३ || ततः शास्त्रोक्तपद्धत्या नानादेशविहारतः । अचीकरन् भवन्तो मां तीर्थयात्राः शुभावहाः || ४ || अनेकशास्त्राध्ययनं भवद्भिः कारितोऽन्वहम् । ज्ञानचारित्रसंस्कारैरुत्तमैर्वासितोऽस्मि च ॥ ५ ॥ श्रेयसे नित्यं भवद्भिश्चिन्तनं कृतम् । व्यापृताश्च ममोन्नत्यै सदा खाखिलशक्तयः ।। ६ ।। ममाविनयदोषाश्च सदा क्षान्ता दयालुभिः । भवद्भिरित्यनन्तोषकारैरुपकृतोऽस्म्यहम् || ७ || मोक्षाध्वसत्पान्थ ! मुनीन्द्र ! हे गुरो ! वचोऽतिगा वः खलु मय्युपक्रियाः । असम्भव प्रत्युपकारसाधनाः स्मृत्वाहमद्यापि भवामि गद्गदः ॥ ८ ॥ एवं सत्यपि विश्रुतं सुममिदं काणादशास्त्रात्मकं युष्मत्प्रेरण मार्गदर्शन बलात्सम्पादितं किञ्चन । युष्मत्पाणियुगे प्रणम्य बहुशो भक्त्यार्थयाम्युज्ज्वले प्राप्नोमि प्रवरां मुदं च हृदये मोक्षाध्वदेशिन् प्रभो ! || ९॥ तत्रभवदन्तेवासी शिशुः जम्बूविजयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy