________________
. २०१३ विक्रमाब्दे जामनगरे वयं चतुर्मासी स्थितास्तदास्य सम्पादनं प्रारब्धम् । ततो ग्रामानुग्रामं विहरन्तः २०१४ वर्षम्य चतुर्मासी झींझुवाडाग्रामेऽतिबाह्य श्रीशङ्केश्वरपार्श्वनाथतीर्थयात्रायै वयमत्रायाताः। सततं भगवत्स्मरणे लीना गुरुदेवा अत्र २०१५ संवत्सरे माघशुक्लाष्टम्यां दिवं गताः । अतोऽचिन्तित एव तेषामतिदुःसहो विरह आपतितः । गुरुदेवविरहाद् वैक्लव्यमापन्नः किंकर्तव्यमूढश्च सर्वेषु कार्येषु निरुत्साहोऽहमभवम् । अस्य वैशेषिकसूत्रस्य सम्पादनकार्यमप्यत एव सार्धवर्ष यावत् सर्वथा स्थगितप्राय जातम् । प्राच्यविद्यामन्दिरस्य नियामकोपनियामकयोः श्रीभोगीभाईसांडेसरा-उमाकान्तभाईमहोदययोरेतत्कार्यसमाप्त्यर्थं भूयो भूयः प्रेरणैवास्मिन् कर्मणि मां पुनः प्रवर्तयामास । अतस्तो महाभागावेतत्समाप्तौ शीघ्रं चास्य प्रकाशने मुख्यं निमित्तम् ।
____ यत्र पाठः कश्चित् संशोधना) विकल्पान्तरं वा सम्भावनाहमित्यस्मन्मतं तत्र सम्भावनाहः पाठ ( ) एतादृश्यां बन्धन्यां निवेशितः। यत्र तु पूरणार्ह इत्यस्मन्मतं तत्र पूर्तिः [ ] एतादृश्यां चतुरस्रबन्धन्यां निवेशिता।
अत्र सूत्राणां पाठभेदाः PS. P. O. आद्यनुसारेण प्रदर्शितास्तथाप्यस्माकमनवधानाद् यदशुद्धमवशिष्टं वा तदत्रोपान्त्ये योजिते वृद्धिपत्रकेऽस्माभिरुपदर्शितम् । प्राचीनसूत्रपाठतुलनापि तत्रोपदर्शिता । अतस्तजिज्ञासुभिर्वृद्धिपत्रकमप्यवश्यं विलोकनीयम् ।
अस्य शोधनपत्राण्यनेकशोऽस्माभिः पठितानि । तथाप्यवशिष्टानामशुद्धीनां प्रमार्जनाय शुद्धिपत्रकमपि प्रान्ते प्रदत्तम् । एवं कृतेऽप्यनवधानाद् दृष्टिदोषाद् मतिमान्द्यात् सीसकाक्षरानुत्थानादेर्वा कारणाद् ये दोषा अवशिष्टास्तान् गुणैकपक्षपातिनो विद्वांसः स्वयमेव प्रोञ्छयित्वा ग्रन्थमेनं विमलीकरिष्यन्तीत्याशास्महे ।
येषां कृपा-सहायबलात् कार्यमेतत् परिनिष्ठितं तेषामन्तर्यामिणां भगवतां गुरुदेवानां करकमलयोग्रन्थमेनं समर्पयन् परमां कृतार्थतां परमं च प्रमोदमनुभवामि ।
—इत्यावेदयति पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टशिष्यपूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी
जैनमुनिजम्बूविजयः। श्रीशङ्केश्वरपार्श्वनाथतीर्थम्
ज्येष्ठबहुलषष्ठी विक्रमसंवत् २०१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org