________________
४१-४२ ]
अष्टाविंशतितमः सर्गः
११६५
क्षणस्याधिकारवान् तत्तुल्यकोमलतावानित्यर्थः । तत्त्वस्थितिप्रकाशाय तत्त्वानां जीवादीनां स्थितिप्रकाशाय स्वात्मना एकायितः एकतायुक्त इति विरोधः । तस्य परिहारःसंसारोच्छेदकतास्विक स्थितिप्रकाशनाय स्वात्मना तन्मयोऽभूदिति ॥ ४० ॥
विनयाधिगतः
सत्सु नयाधीनोऽप्यसौ सदा ।
सर्वारम्भविमुक्तः सन् योगमालब्धवान् मुहुः ॥४१॥
विनयेत्यादि - सत्सु विनयाधिगतः, नयरहितोऽपि नयाधीनो नीतिमानासीद् इति विरोधस्तस्माद् विनयेन नम्रभावेन अधिगतः सन् नयाधीनः विचारवानासीदिति परिहारः । सज्जनानां वैयावृत्यकरोऽभूदित्यर्थः । सर्वारम्भैः कार्यक्रमै वियुक्तो रहितोऽपि योगं सन्नहनादिसम्प्रयोगमा लब्धवान् इति विरोधस्तस्माद् योगं नाम एकाग्रचिन्तानिरोधरूपम् आत्मध्यानम् आलब्धवानिति परिहारः ॥४१॥
प्रायश्चित्तमधात् स्वस्मिन् प्रायश्चित्ताति दूरगः । सोऽहमित्यप्यनुध्यायन्नहङ्कारातिगोऽभवत्
॥४२॥
प्रायश्चित्तमित्यादि - प्रायः चित्ताद् अतिदूरगो मनोरहितोऽपि स्वस्मिन् चित्त हृदयमधात्, एवं विरोधः । तस्मात् प्रायश्चित्ताद् नाम आवश्यककर्मणि स्खलनात् अतिदूरगः सन् स्वस्मिन् आत्मचिन्तने एव प्राय: प्राचुर्येण चित्तम् अधाद् इति परिहारः । सोऽहं इत्यनुध्यायन्नपि अहङ्कारातिगः अहमिति शब्दरहितोऽभवदिति विरोधः, तस्मात् अहकारात् स्मयपरिणामात् अतिग इति परिहारः ॥ ४२ ॥
है - संसारका उच्छेद करने वाली वास्तविक स्थितिका प्रकाश करनेके लिये वे स्वकीय आत्मा के साथ एकत्वको प्राप्त हुए थे
Jain Education International
118011
अर्थ – वे सत्पुरुषोंके विषयमें नयाधिगम-नीतिज्ञानसे रहित होकर भी नयाधीन-नीतिज्ञानसे सहित थे, यह विरोध है । परिहार इस प्रकार है— सत्पुरुष-विषयक विनय गुणसे सहित होकर भी नयज्ञानके वेत्ता थे । सब प्रकार के आरम्भसे विमुक्त होकर भी योग-संयोगको प्राप्त थे, यह विरोध है । परिहार इस प्रकार है कि सब आरम्भोंसे रहित होकर भी एकाग्र चिन्ता निरोध रूप आत्मध्यानको प्राप्त थे ॥ ४१ ॥
अर्थ- वे प्रायः चित्त- मनसे रहित होकर भी अपने आपमें मनको धारण करते थे, यह विरोध है । परिहार इस प्रकार है कि आवश्यक कार्यों में स्खलन होनेपर गुरुके द्वारा प्रदत्त दण्डसे दूर रहते थे तथा अपना मन अपने आपमें लीन रखते थे । 'सोऽहम्' वह मैं हूँ, इस प्रकार निरन्तर ध्यान करते रहने
For Private & Personal Use Only
www.jainelibrary.org