________________
१२५४
जयोदय-महाकाव्यम्
[ १८-२० इत्येवं वितर्कतः, आत्मानं अपूर्वम् अकारः पूर्वस्मिन् यस्य तत्करणम् अकरणं करणेरिन्द्रिय रहितमतीन्द्रियं कृतकृत्यं वा कतु विचचार विचारितवान् । अथवा पृथक्त्ववितर्कनामकशुक्लध्यानतः अपूर्वकरणनामगुणस्थानं कतुं विचचार ॥१७॥
निवृत्तीच्छुरपीत्यत्रानिवृत्तिकरणं गतः।
जातुचित् संपरायत्वमित्यतोऽस्य बभूव तत् ॥१८॥ निवृत्तीत्यादि-स निवृत्तीच्छुरपि संसारावतियातुमिच्छुः सन् अनिवृत्तिकरणं निवृत्तिरहितत्वं गत इति विरोधः, तस्मादनिवृत्ति नाम गुणस्थानं प्राप्त इत्यर्थः। अत एवास्य पुनर्जातुचित् सम्परायत्वं यत्किञ्चित्कषाययुक्तत्वं यद्वा सूक्ष्मसाम्परायनामगुणस्थानवत्त्वं चास्य बभूव ॥१८॥
स मोहं पातयामास समोऽहं जिनपैरिति ।
अनुभूतात्मसामोऽप्यनुभूतदयाश्रयः ॥१९॥ स मोहमित्यादि-अनु ततोऽनन्तरं भूतदयाश्रयः प्राणिमात्रेषु दयावान् सः, अहं जिनपर्भगवद्भिरहद्भिः समस्तुल्य इतोत्थमनुभूतमात्मसामयं येन स मोहं पातयामास क्षीणमोहनामकगुणस्थानं प्राप्तवानिति ॥१९॥
अशिष्टमन्त्यजं स्पृष्ट्वा वर्णतो यस्तवाविजः । तत्क्षणात् केवलं धृत्वा स्नातकत्वमगावसौ ॥२०॥
अकरण-इन्द्रियरहित अथवा करने योग्य कार्यसे रहित आत्माको करनेके लिये अथवा पृथक्त्व वितर्क विचार नामक शुक्ल ध्यानसे अपूर्वकरण नामक अष्टम गुणस्थानको प्राप्त करनेके लिये विचार करने लगे ॥१७॥ ____ अर्थ-मुनिराज जयकुमार यद्यपि निवृत्ति-संसारसे पार होनेके इच्छुक थे, तो भी अनिवृत्तिकरण-पार न होने योग्य अवस्थाको प्राप्त हुए । यह विरोध है। परिहार पक्ष में अनिवृत्तिकरण नामक नवम गुणस्थानको प्राप्त हुए। पश्चात् कदाचित् इनके किञ्चित्-अत्यन्त सूक्ष्म कषायसे सहित अवस्था हुई अथवा सूक्ष्म साम्पराय नामक दशम गुणस्थान प्राप्त हुआ ॥१८॥
अर्थ-पश्चात् प्राणिमात्रपर दया करनेवाले जयकुमार मुनिने मैं जिनेन्द्र भगवान्के तुल्य हूँ, अर्थात् शक्तिको अपेक्षा उन्हींके समान ज्ञाता द्रष्टा स्वभाव वाला हूं, इस प्रकार आत्मशक्तिका अनुभव करते हुए मोह कर्मका क्षयकर | दिया ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org