________________
जयोदय-महाकाव्यम्
[ ४१-४२-४३
चिराय चिरकालतस्त्रपया लज्जया प्रच्छादितो गोप्यतां नीतः स एव रागो रक्तिमा प्रीततमं हृदयेश्वर प्रति इयान् महान् महापरिणामवान् सोऽसौ प्रान्तवर्ती अधुना साम्प्रतं मद रवास्पदं स्थानं यस्य स उदियाय प्रकटतामाजगाम ॥४०॥
यदेवमिन्दीवर पुण्डरीकसारैः
७७०
समारब्धनिजप्रतीकम् ।
मदेन सत्कोकनदस्य शोभां चक्षुर्दधच्चारुदृशामदोऽभात् ॥ ४१ ॥
टीका - यत्किल चारुदृशां मनोहराक्षीणां चक्षुः इन्दीवराणि नीलोत्पलानि पुण्डरीकाणि श्वेतकमलानि तेषां सारैरुत्तमभागैः समारब्धं निष्पन्नं निजप्रतीकं स्वकीयमङ्गं सवाद इदानों मदेन कृत्वा कोकनदस्यारविन्दस्य शोभां लोहितिमानं दधत् सन्दधानं सत् अभात् शुशुभे मद्यपानप्रसादेन स्त्रीणां लोचनानि रक्तवर्णानि सञ्जातानीति ॥४१॥
अप्रस्तुतत्वात्सुदृशां सदङ्गे गुप्तोऽपि सन्धातुगतो यथार्थः । मदेन वानेन किलोपसर्ग-पदेन हावादिगणः कृतार्थः ॥ ४२ ॥
टीका - हाव आदिर्येषां ते हावादयस्तेषां गणः आदिपदेन विभ्रमविलासप्रभृतश्च । अप्रस्तुतत्वादप्रासङ्गिकत्वात् सुदृशां शोभने दृशौ यासां ताः सुदृशस्तासां सत् प्रशस्तमङ्गं शरीरं तस्मिन् सन्नपि गुप्तोऽनभिव्यक्तः स एवानेन मदेन मद्यपानेन कृत्वा किल निश्चयेन कृतार्थः प्रस्पष्टलक्षणो बभूव । यथा धातुगतोऽर्थो वाच्यादिः स उपसर्गपदेन प्रादिना प्रव्यक्ततामाप्नोति मद्यपानं कृत्वा स्त्रियो हावभावविभ्रमविलास तत्परा बभूवुरिति ॥ ४२ ॥ ऋजोश्च बध्वाभृशमप्यकारि स्मितं मुखाम्भोरुहिहाव हारि । वाक्कौशलं किञ्च मदेन यूंना छटा कटाक्षस्य दृशोरनूना ||४३||
द्वारा चिरकालसे छिपा कर रक्खा गया था वही राग इस समय पतिके प्रति मदिराके आश्रयसे इतने अधिक परिमाणमें प्रकट हुआ था । भाव यह है कि मदिरा पानसे स्त्रियोंके नेत्रोंमें लालिमा आ गई थी और लज्जा धीरे-धीरे समाप्त हो रही थी ||४०||
अर्थ - स्त्रियोंका जो नेत्र नील कमल और श्वेतकमलके सारसे निर्मित था वही अब मदिरा मदके कारण लाल कमलकी शोभाको धारण करता हुआ सुशोभित हो रहा था || ४१||
अर्थ - जिस प्रकार भू आदि धातुओंका छिपा हुआ भी अर्थ प्र-परा आदि उपसर्गों के द्वारा प्रकट हो जाता है उसी प्रकार अप्रासङ्गिक होनेसे स्त्रियोंके शरीर में छिपे हुए हाव-भाव विभ्रम-विलास आदि भाव इस मदिरा पानसे प्रकट हो गये थे ||४२ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org