SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ५६८ [ २४-२७ अनुकमधीश्वरस्य वारां समुपन्यस्तलसत्पदामिवारात् । प्रवरस्य वरस्य निर्जगाम सुगिरा मङ्गलदर्शनेति नाम ।। २४ ।। सुरभिरिति । इयं सुन्दरी, अभीष्टं मङ्गलकरं दर्शनं यस्याः सा शोभनाकारा मे ममावामेऽनुकूलाचरणवति मनस्येव सुमनसि कुसुम इव प्रसन्ने सुरभि सुवासनेवास्तु | इत्येवमभिप्रायवता मया, एतदर्थं परितश्चरितं यत इह नुः पुरुषस्वरूपस्य मम सर्वस्वमपि तदेता समर्थ भवति । भुवि पृथिव्यां समुपन्यस्ते लसतो शोभने च ते पदे चरणौ यस्यास्तां, पक्षे, समुपन्यस्तानि लसन्ति च पदानि सुप्तिङन्तानि यस्यामिति मङ्गलमानन्दकरं विघ्नहरं च दर्शनं यस्यास्तामधीश्वरस्य राज्ञोऽकम्पनस्य वारां सुलोचनामनुकर्तुमिव प्रवरस्य विचक्षणस्य वरस्य नाम दुर्लभस्य सुगिरा वाणो च निर्जगामाभिव्यक्ताऽभूत् ।। २३-२४ ।। किल कामितदायिनी च यागावनिरित्यत्र पवित्र मध्यभागा । तिलकायितमञ्जुदीपकासावथ रम्भारुचितोरुशर्मभासा ।। २५ ।। afts विभातु निष्कलङ्का सफलोच्चैः स्तनकुम्भशुम्भदङ्का । विलसत्त्रिवलीष्टनाभिकुण्डा शुचिपुष्पाभिमतप्रसन्नतुण्डा ||२६|| द्विजराजतिरस्क्रियार्थमेतल्लपनश्रीरितिशिक्षणाय वेतः । द्रुतमक्षतमुष्टिनाथ यागगुरुराडेनमताडयद्विरागः ।। २७ ।। जयोदय-महाकाव्यम् अन्वय : मया एतदर्थं परितश्चरितं मम सर्वस्वं इह एतया समर्थ अथ अवामे मे नुः मनसि अभीष्टदर्शना इयं सुरभिः सुमनसि अस्तु । इति अधीश्वरस्य वारां समुपन्यस्तलसत्पदां इव आरात् अनुकर्तुं मङ्गलदर्शनेति नाम प्रवरस्य वरस्य सुगिरा निर्जगाम । अर्थ : मैंने इसे प्राप्त करनेके लिए पूर्ण प्रयत्न किया है और इसके द्वारा ही मेरा सर्वस्व समर्थ होगा, अर्थात् मेरा जीवन सफल होगा, इसलिए मंगलकारक दर्शन वाली यह सुलोचना सुन्दर फूलके समान मेरे मनमें सुगन्ध होकर रहे । इसप्रकार अकम्पन महाराजकी जो बाला सुलोचना है सुन्दर चरणोंको धारण करनेवाली है उसका अनुकरण करती हुई मंगलरूप है वपु जिसका ऐसी उत्तम वर राजाकी वाणो निकली । ( जयकुमारकी वाणी उत्तम पदयुक्त थी और सुलोचना उत्तम चरणोंसे युक्त थी ) ।। २३-२४ ।। अन्वय : अथ इत्यत्र किल यागावनिः च कामितदायिनी पवित्रमध्यभागा तिलकाय मञ्जुदीपका रम्भारुचितोरुशर्मभासा असौ वनितेव विभातु । विलसत्त्रिवलीष्टनाभिकुण्डा शुचिपुष्पाभिमतप्रसन्नतुण्डा सफलोच्च स्तनकुम्भशुम्भदङ्का निष्कलङ्का वनिता इव विभा । किन्तु एतल्लपनश्रीद्विजराजतिरस्क्रियार्थं इति शिक्षणाय वा इतः याग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy