SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीसोमचारित्रगणिविरचितं मनाभिधानः सुमनास्तृतीयो। लम्पाकसंज्ञः सुकृती चतुर्थः ॥१०॥ (युग्मम् ) यः सज्जनः स्तोकधनस्ततः स मात्मीयनिम्बादिकुटुम्बयुक्तः । स लुप्तदुष्कालबलावकाशं समागमद् मालवमध्यदेशम् ॥११॥ अथ तत्र तस्य वासस्थाननगरवर्णनम्यदा नृपाद्या विषमाद्रिवपा दिषु मनष्टाः परचक्रभीताः । यस्य प्रभावाद् यदभूतदार्य प्रजाभिराकीर्णमशङ्किताभिः ॥ १२ ॥ भूतग्रहोद्भावितदुष्टदोषा स्तुरुष्कचौरादिनरास्त्वशेषाः ।। यत्र स्थितं यत्पदपर्युपास्ते नोपद्रवन्त्यातजन्तुजातम् ॥ १३ ॥ वीरस्य तस्यात्यवदातमू भ्राजिष्णुजैनालययुक्तमध्यम् । यञ्चास्ति भूरिव्यवहारिरम्यं तस्मिन् पुरं पर्णविहारसंज्ञम् ॥ १४ ॥ स्वबन्धुवर्गेण समं समोदं स सज्जनस्तत्र चकार वासम् । योगो भवेद् यत्र च देवगुर्वोही हि तस्मिन् वसतिं विदध्यात् ॥१५॥ (चतुर्भिः कलापकम् ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy