________________
किञ्चिद् विज्ञापनम्
सागरसूरिपादानां सविधे । एभिः सूरितसत्तमैर्विहारावस्थायामपि यावच्छक्यं पाठस्थलच्छायादिभिः सङ्कलय्य संशोधितानि तानि पत्राणि ।
१४
२४० पृष्ठेषु तु मुद्रितेषु एवंविधमपि साहाय्यं दत्तुमसमर्था अभूवन् सूविरा विहारादिव्यग्रचित्ताः । तथापि संशोधनकर्मणि स्वसौजन्यख्यापकेन यावता साहाय्यदानेनानुगृहीतोऽस्मि तावता तेभ्यो ददामि शतशो हार्दिकान् धन्यवादान् । अपरञ्चावशिष्टस्य विभागस्य संशोधने मुख्यत्वेनोपकर्तॄणां दक्षिणविहारिमुनिवरश्री अमर विजय शिष्य श्रीचतुरविजयानां नामधेयं कीर्तयाम्यनेकशः ।
अत्रेदमपि निवेदनमावश्यकं यद् १०४ पृष्ठमुद्रणानन्तरं प्रकाशकेनान्यत् प्रतियमलं ममदाय | तत्र एका च संज्ञका प्रतिः अमदावादस्थहेले ति नाम कोपाश्रयभाण्डागार - सत्का, ज-संज्ञका तु एतदपेक्षया प्राचीना कतिपयजीर्णपत्रमया 'जैनानन्दपुस्तकालय - सत्का यत्सहायतया ग-प्रतिर्लिखितेति मां प्रतिभाति । एतत् प्रतियुगलमभूत् किमप्युपयुक्तं सन्देहनिराकरणावसरे । छ सञ्ज्ञप्रतिरुपाध्यायानां न्यायतीर्थ न्यायविशारदे तिपदवीद्वय विराजितॄणां श्रीमङ्गलविजयानां यदुपयोगः क्वचिदेव कृतोऽत्र मया ।
अन्तेऽस्य २०६८० श्लोकप्रमाणकस्य ग्रन्थस्य प्रकाशनेन जैनतत्वजिज्ञासुनां प्राच्यपाश्चात्यविपश्चितां साहाय्यकारिणः, मदीयसूचनानुसारेण प्रो. यकोबी- विन्टर्निटस् लॉयमेनगरिनोप्रमुखविद्वद्वरेभ्योऽग्रवचनरूपां प्रस्तावनासम्बन्धिनीं वा लेखसामग्री विज्ञप्तिपत्रद्वारा याचमानस्य च श्रेष्ठिप्रवरस्य श्रीयुतसा कर चन्द्रात्मजजीवन चन्द्रस्य प्रयासमिममनुमोदयन्, ग्रन्थस्य द्वितीयस्यापि विभागस्य शुद्धिपत्रकस्य विधातॄणां न्यायव्याकरणतत्त्वज्ञान विषयकनानाग्रन्थप्रणेतॄणां उपाध्यायश्रीमङ्गलविजयानां कृतज्ञतापूर्विकामुपकृति संस्मरन् कृपापीयूषपाथोधिभ्यो विवेकविचक्षणेभ्यः स्खलनासम्बन्धिनीं च क्षमां याचमानो विरमाम्यस्माद् विज्ञापनाप्रस्तावाद् विबुधवृन्दारविन्दमकरन्दन्दिन्दरो हीरालालः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org