________________
तत्त्वार्थाधिगमसूत्रम्
[श्रीदेवगुप्तसंसाराभावात् सर्वा प्रक्रिया दुरुपपादा इति व्याख्यातम् , पुनश्च वक्ष्यति विस्तरेण शास्त्र एव । इति प्रथमकारिकार्थः ॥१॥
एवं सति संसारोऽस्तीति ज्ञापिते तस्यानादित्वख्यापनार्थमाहजन्मनि कर्मक्लेशै-रनुबद्धेऽस्मिंस्तथा प्रयतितव्यम् । कर्मक्लेश भावो, यथा भवत्येष परमार्थः ॥ २॥ आर्या
व्या-जन्मनि कर्मेत्यादि । अथवा उक्तं दुःखनिमित्तं जन्म ततः कथमित्यार्ययैवाहजन्मनि कर्मक्लेशैरनुबद्धेऽस्मिंस्तथा प्रयतितव्यम् ।-जन्मोक्तवक्ष्यमाणलक्षणम् । क्रियत इति कर्म ज्ञानावरणाद्यष्टधा वक्ष्यते । क्लिश्नन्ति क्लेशयन्ति वा स्वामिनं, क्लिश्यते वैभिरिति क्लेशाः, तेऽपि मोहनीयभेदाः क्रोधादयः कषाया वक्ष्यन्ते । अनुबद्ध सन्ततवेष्टिते, कथम् ? सति हि जन्मनि कायवाश्मनोहेतुकं कर्म भवतीत्युक्तं, ततः प्रवृद्धकर्माशयस्यौदयिकभावानुवर्तिनोऽस्ववशस्य संसारहेतवः क्रोधलोभादयोऽनेकजन्मान्तरलेशनाय क्लेशा आविर्भवन्ति, ततो रागद्वेषादिहेतुकं तीनं कर्मानुबद्धं, पुनरपि जन्मनि सति कर्म भवति, कर्मभ्यः क्लेशाः, क्लेशेभ्यः पुनरपि जन्मेत्येवमनुबद्धमित्युच्यते । एतेन संसारस्यानादित्वं दुःखभूयस्त्वं च व्याख्यातम् । अत्र च सत्यप्यनादित्वे परस्परहेतुत्वे च त्रयाणां जन्मानुबद्धमित्युक्तं प्रत्यक्षत्वादाधारत्वात् पूर्वोक्तत्वाच्च । एवं च कृत्वा अन्यत्राप्युक्तम् “विविधवाधनयोगाद् दुःखमेव जन्मोत्पत्ति"रिति । अस्मिन्निति, तदेव मानुषं जन्मानेडयति, प्रत्यक्षमेव क्लेशानुबद्धं दृश्यत इति, केषाञ्चिद् देवजन्मन एवोत्तरोपपत्तिप्रतिलम्भः किल,तदाशङ्कानिषेधाय चास्मिन्नित्याह, दूरगानामपि पुनरागत्यास्मिन्नेव कर्मभूमित्वात् प्रयत्नपूर्वकः कर्मक्लेशाभाव इति । तथा प्रयतितव्यम् । तथेति प्रकारार्थे, तेन प्रकारेण दर्शनादित्रयलाभोपायपूर्वकमित्यर्थः। प्रयतितव्यम् प्रघटितव्यं सर्वजन्मिनांऽऽत्मना कर्मक्लेशसन्ततत्वमवगम्य संसारोद्विग्नेन विरागमार्गानुवर्तिना प्रकर्षेण सर्वात्मना तपःसंयमादिषु वर्तितव्यमित्यर्थः । आद्यर्थे वा प्रशब्दः, सम्यग्दर्शनादिलाभानन्तरमादावेव यतितव्यम्, न पुनर्विश्वसितव्यम्, पापा हि कर्मक्लेशाः प्रवृद्धाः सन्तः पुनरपि दर्शनादि प्रतिपातयन्तीति । न चेयं स्वमनीषिका, वक्ष्यति ह्याचार्यः शास्त्रे "अनन्तानुबन्ध्युदयात् पूर्वोत्पन्नमपि सम्यग्दर्शनं प्रतिपतती"ति। किमर्थ प्रयतितव्यमित्याह-कर्मक्लेशाभावो यथा भवति । कर्मणां क्लेशानां चाभावः क्षयस्तैर्वियोग इत्यर्थः । कथं च स भवति ? शङ्कायतिचारवियुक्तावासदर्शनो हि शुद्धाशयस्त्रिभुवनमप्युपहितमोहमहेन्धनज्वलितकर्मदहनकाथ्यमानमशरणममलज्ञानागमचक्षुषाऽवलोक्य गर्भवासादिभयोद्विनः प्राणातिपातादिविरतिप्रतिज्ञामारुह्य तदृढीकरणार्थे च पञ्चविंशतिभावनामावितान्त
१'सर्वजन्मिनामात्मनाः' इति क-पाठः । २ अष्टमेऽध्याये दशमस्य सूत्रस्य भाष्ये । ३ ' गर्भवासाद् विग्नः'
इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org