________________
४२१
सूत्र ३३ ]
स्वोपक्षमाध्य-टीकालङ्कृतम् इत्यन्तरयोगायोमिसम्बन्धः, स्निग्धगुणानां रूक्षगुणानां च बन्धो भवतीति, इतिशब्दोऽवधारणार्थः। किमेष नियम एव सर्वस्य स्निग्धगुणस्य रूक्षगुणेन बन्ध इति, एवं पृष्टे अनोच्यते इत्याह । सति विधावविशेषेण प्रवृत्तेनिकृष्टमध्यमोत्कृष्टस्निग्धरूक्षाणामनभिप्रेतार्थप्रसङ्गविनिवृत्त्यर्थमिदमभिदध्महे
सूत्रम्-न जघन्यगुणानाम् ॥ ५-३३ ॥ टी०-अतिप्रसक्तस्य विधेरयमपवादारम्भः ॥
भा०-जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च परस्परेण बन्धो न भवति ॥ ३३॥
टी-जघन्यगुणस्निग्धानामित्यादि भाष्यम् । प्रकृतत्वाद् बन्धः प्रतिषिध्यते नशब्देन, केषां बन्धो न भवति ? जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च । जघने भवो जघन्यः, (जघन्य इवान्यो जघन्यः ) निकृष्ट इत्यर्थः, जघन्यश्चासौगुणश्व जघन्यगुणः ( जघन्यगुणः) स्निग्धो येषां ते जघन्यगुणस्निग्धाः पुद्गलास्तेषां जघन्यगुणरूक्षाणां च परस्परेण बन्धः प्रतिषिध्यते, परस्परेणेति सजातीयविजातीयविशेषप्रतिपादनम् । स्वस्थाने स्निग्धस्य स्निग्धेन नेष्यते बन्धः, रूक्षस्यापि रूक्षेण नैवास्ति बन्धः, तथा परस्थानेऽप्येकगुणस्निग्धस्यैकंगुणरूक्षेण नैवास्ति बन्धः, सत्यप्येषां संयोगे स्निग्धरूक्षगुणत्वे च न परस्परमेकत्वपरिणतिलक्षणी बन्धः समस्ति, किं पुनः कारणमत्रैषां बन्धो न भवतीति ? तादग्विधपरिणतिशतेरभावात्, परिणामशक्तयश्च द्रव्याणां विचित्राः क्षेत्रकालाधनुरोधिन्यः प्रयोगविलसापेक्षाः प्रभवन्ति, न जातुचित् पर्यनुयोगवशेन पर्यनुयोक्तुरिच्छामनुरुध्यते, जघन्यश्च स्नेहगुणः स्तोकत्वादेव जघन्यगुणरूक्षं पुद्गलं न प्रत्यलः परिणामयितुम्, तथा रूक्षगुणोऽप्यल्पत्वाजघन्यगुणस्निग्धं नात्मसात्कर्तुं समर्थः, सङ्ख्यावाची चायं गुणशब्दः, यथैक एवास्य गुणः पुरुपस्येति, आधिक्यार्थे वा द्विगुणत्रिगुणमिति यथा, अस्ति च स्नेहादिगुणानां प्रकर्षापकर्षभेदः, तद् यथा-जलादजाक्षीरं स्निग्धम्, अजाक्षीराद् गोपयः, गोपयसो महिषीपयः, ततः करभीपय इत्युत्तरोत्तरस्नेहाधिकत्वम्, एषामेव पूर्व पूर्व रूक्षम्, तत्रैकगुणस्निग्धस्यैकगुणस्निग्धेनैव ध्यादिना सर्वेण सदृशेन सङ्ख्येयासख्येयानन्तानन्तगुणस्निग्धेन वा नास्ति बन्धः, तथैव चैकगुणरूक्षस्यैकगुणरूक्षादिभिः सदृशैर्यावदनन्तगुणरूक्षैर्न भवति बन्धः, सूत्रव्यापारस्तु जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च पुद्गलानां नास्ति बन्धः परस्परम्, शेषं वक्ष्यमाणसूत्रव्याख्येयमुक्तं प्रसङ्गतः, इत्येवमेतौ जघन्यगुणस्निग्धरूक्षौ विहायान्येषां मध्यमोत्कृष्टस्निग्धानां रूक्षैः सह
१ अत्र चिहान्तस्थो भागः क-ख-योर्नास्ति । २ 'रूक्षादिभिः' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org