SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४०६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ५ धर्मादीनामन्यतमैकविवक्षायां सत् मातृकापदम्,द्वित्वविवक्षायां सती मातृकापदे,त्रित्वादिविवक्षायां सन्ति मातृकापदानीति प्रतिविशिष्टव्यवहारप्रसिद्धिः, अतो धर्मादयः परस्परव्यावृत्तसत्त्व. स्वभावार्पणयैव सन्ति, नान्यथा । धर्मास्तिकायस्वलक्षणं य(त् तन जातुचिदधर्मास्तिकायलक्षणं भवति, अतो यदस्ति तन्मातृकापदं वेत्यादिना विकल्पत्रयेण सगृहीतं धर्मादि पञ्चविधम्, सकलभेदजालप्रसूतिहेतुत्वान्मातृकापदं मातृकास्थानीयमुच्यते धर्मादि, नातोऽन्यदस्तीति, अमातृकापदं वेत्यादिना तामेव परस्परव्यावृत्तिमभिव्यनक्ति, यदि धर्मादिपञ्चकव्यतिरेकि किञ्चिद् भवेत् ततस्तन्मातृकापदं वेत्यादिव्यपदेशो युज्येत, संज्ञावालक्षण्याद्यभावात् तच्चासत्, तस्मात् धर्म एवाधर्मलक्षणाद् व्यावर्तमानस्तेनाधर्मस्वलक्षणरूपेणासनित्युच्यते । एवं शेषेष्वपि भावना विधेया॥ सर्वसद्गतिविशेषाणां प्रसवहेतुत्वाद् धर्मास्तिकायो मातृकापदम्, स एव च सर्वसस्थितिविशेषप्रसवव्यावृत्त्यपेक्षया अमातृकापदम्, एवं द्विवचनबहुवचने विभावनीये । तस्मान्न द्रव्यास्तिकादि किश्चिन्मातृकापदव्यतिरेकि विद्यते, स्वभावासंक्रान्त्या तु परस्परापोहभावतः पदार्थव्यवस्थानम्, स चापोहः सल्लक्षणव्यवच्छेदेनको यथा प्रमाणं प्रमेयं च सद्, यन प्रमाणं न प्रमेयं तदसदेव, अपरो धय॑न्तरस्य धर्मान्तरोत्पन्नवैशिष्ट्येनापोहा, तद्यथा-जीवोऽजीवो न भवत्यश्वो गौर्न भवतीति, तथाऽनपोहश्चेतनाचेतनयोर्द्रव्यादेशात्, परस्परापोहे च द्रव्यादेशात् सर्वेषां धर्मादीनामनपोह इत्येवं सामान्यविशेषानेकधर्मत्वाद् धर्मादयोपोहानपोहरूपाः सर्वे मातृकापदास्तिकम्, एवं द्रव्यार्थनयाभिप्रायो द्रव्यास्तिकमातृकापदास्तिकाभ्यामाख्यातः । पर्यायार्थनयावसरे त्विदमुच्यते• भा०-उत्पन्नास्तिकस्य उत्पन्नं वा उत्पन्ने वा उत्पन्नानि वा सत् । अनुत्पन्न वाऽनुत्पन्ने वाऽनुत्पन्नानि वाऽसत् ॥ टी०-उत्पन्नास्तिकस्येत्यादि । पर्यायार्थस्य मूलमृजुसूत्रः, स च प्रत्युत्पन्न वर्तमानक्षणमात्रं सर्वमेव धर्मादिद्रव्यं प्रतिजानीते, क्षणं क्षणं प्रत्युत्पन्नं पूर्वपूर्वक्षणविलक्षणम्, इदमेव च सतो लक्षणं यदुत्पद्यते प्रतिक्षणम्, उत्पादो हि वस्तुनो लक्षणम्, अनुत्पादाश्च व्योमोसलादयो न कथञ्चिल्लक्ष्यन्ते, तत्रात्मनां तावत् प्रतिक्षणमपरापरज्ञानदर्शनक्रियाद्युत्पादो लक्षणम्, पुद्गला वर्ण-गन्ध-रस-स्पर्श-शब्द-संस्थान तम-श्छायाधुत्पादलपर्यायास्तिके उत्पन्ना० क्षणाः, धर्माधर्माकाशांस्तु गन्तृस्थात्रवगाहमानगतिस्थित्यवगाहाका ऋजुसूत्रः रोत्पादतः प्रतिक्षणमन्ये चान्ये च भवन्तीति, एषां च वर्तमानक्षण एव सत्यः, तसादेकमभिन्नं सकलभेदहेतुर्मातृकापदं नाम किश्चिन्नास्ति व्यवहारनयपुरस्कृतम् । अपि च-व्यवहारोऽपि लौकिकः प्रत्युत्पन्नक्षणसाध्य एव, सतोऽर्थक्रियासामर्थ्यात् सँश्च वर्तमानक्षणः, क्रान्तानागतक्षणयोरसत्वान्नार्थक्रियासामर्थ्य सम्भाव्यते, १ 'अलोकाकाशेऽपि अगुरुलघुपर्यायाणामनुसमयमुत्पादोऽस्त्येव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy