________________
३९८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः५ स्थानादयः सहभुवो युगपदवस्थायिनः, स्थूलाः सूक्ष्माश्च साधनानि . द्रव्याणां पर्यायाणां साध्यानि च कार्यवशाद् व्यापृताश्चोदकाद्याहरणादिषु मृत्पिण्ड-शिवकवैविध्यम् स्थासक-कोशक-कुशूल-घट-कपाल-शकल-शर्करा-पांशुत्रुटिपरमाणवः क्रम.
- भुवः, नहि मृदादिसामान्यव्यतिरेकेण पिण्डादिधो भवितुमुत्सहन्ते, न ह्यङ्गुलिभेदेनर्जुकुटिलतयोः सम्भवः, सैव हि साङ्गुलिः स्वाँस्तु धर्मान् पारम्पर्यमात्रप्रतिलब्धवृत्ती क्रमेणोनमयति, मयूराण्डकरसवदुपारूढस्वरूपाख्येति वचनात् । एत एवासहावस्थायिनः सूक्ष्माः स्थूलाधापेक्षया नित्यानित्यादयः साध्याः साधनानि चाव्यापृता उदकाद्याहरणादिषु, तेषां को नामायं विरोधः ? ॥ ननु सहानवस्थानम्, तन्न, सहोत्पादावस्थानदर्शनादेकद्रव्यवृत्तित्वाच, द्रव्यमेव चक्षुरादिग्रहणापदेशविशेषाद् रूपादिव्यपदेश्यमेकपुरुषपितृपुत्रत्वादिवत्, न च रूपादीनां समुदायैकरूपताऽभ्युपगमनीया, रूपग्रहणे रसादिग्रहणप्रसङ्गादिन्द्रियान्तरवैयर्थ्यसङ्करादिदोषप्रसङ्गाच । न चाभावता, प्रमाणाभावात् प्रसिद्धिविरोधाच्च । स्वलक्षणविरोधोऽपि नास्त्येव, सामान्यविशेषात्मैकलक्षणत्वात् स्याद्वादिपरिगृहीतस्य वस्तुनः, जात्यन्तरत्वाच्च नरसिंहवदेकान्तवादिपरिकल्पिताद् वस्तुन इति । स्यात् तु क्रमजन्मनां धर्माणामसहावस्थायिनां देवमनुष्यादीनां मृत्पिण्डशिवकादीनां च विरोधोऽसहावस्थानलक्षणः, सोऽपि द्रव्यास्तिकनयप्राधान्यादभेदे विवक्षिते पर्यायाणां द्रव्यव्यतिरेकेणानभ्युपगमानास्तीति न कश्चिद् विरोधोऽस्ति स्याद्वादिनः, तमःप्रकाशच्छायातपशीतोष्णविरोधोदाहरणनिरास उक्तविधिनाऽवगम्यः, द्रव्यार्थतो नित्याः पुद्गलाः तमस्तया च क्रमजन्मानः परिणमन्ते पर्यायाः, सामान्यस्याभिन्नत्वादेकरूपा एवेति कः केन विरुध्यते ? । इत्थमर्थस्य सामान्यविशेषात्मैकरूपत्वेऽन्योन्यापेक्षित्वेऽनेकान्तात्मकत्वे एकान्तवादिपरिकल्पिताज्जात्यन्तरत्वे च न कश्चिद् दोषः, तथा स्थित्यंशस्य नित्यत्वादुत्पादव्ययानित्यत्वादुभयस्यामिन्नस्वभाववस्तुतायां कथमिदं घटते नित्यानित्ययोरेकपरिग्रहोऽपरत्वागमनान्तरीयकः एकत्यागश्वापरपरिग्रहाविनाभावीति, प्रत्यक्षादिप्रमाणबाधितत्वादुन्मत्तकप्रलापमात्रमेतदवसीयत इति, तस्मान्न परिकल्पितविषयो विरोधो ( न परिकल्पितापरिकल्पितविषयो ) न सकलस्खलक्षणविषयो नापि सामयिकः, किं तर्हि १ पर्यायनयाभिप्रायेण क्रमजन्मपर्यायविषयः, स चैक एवासहावस्थानलक्षणः, सोऽपि द्रव्यार्थनयाभिप्रायेण नैवास्तीति भावितम् । एवं चैकवस्तुविषये सदसती नित्यानित्ये च अर्पितानर्पितसिद्धेरिति व्यवस्थितम् ॥ द्वितीयसम्बन्धाभिधानेऽपि सङ्गतार्थमेव भाष्यमुक्तेन विधिना, एतमेवार्थमधुना भाष्येण प्रपञ्चयति
भा०-अर्पितव्यावहारिकमनर्पितव्यावहारिक चेत्यर्थः ॥ टी०-अर्पितव्यावहारिकमित्यादिना, प्रक्रान्तं त्रिविधं सन्नित्यं च, तदपेक्षया
१ चिड़ितो भागः क-ख-यो स्ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org