________________
३८६ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ५ वा घटोपयुक्तस्यात्मनस्तदुपयोगविनाशे पटोपयोगोऽर्थान्तरभावगमनम्, अण्वादेव शुक्लवर्णविनाशे कृष्णतयोत्पादो विनाशः, तथाऽऽकाशादीनां पूर्वावगाहगतिस्थितिविनाशेऽवगाहान्तराऽथोन्तरभावलक्षणो विनाशः, अत एव भावान्तरोत्पत्तितो न विगमो विगम एवैकान्तेन, नाप्युपद एवोत्पादः । इत्थमुत्पादविगमौ तत्त्वेनानेकान्तात्मकेन निरूपितावन्वयांशापेक्षावेवात्मला
प्रतिपद्यते प्रायोगिकस्वाभाविको नान्यथेत्येवमुक्ते कश्चिन्मृषाभिमानी महानिबिडवृद्धबुद्धविप्रलब्धबुद्धिराचक्षीत-अस्तु स्वाभाविक एव विनाशो निर्हेतुकः, प्रायोगिकस्तु नोपपद्यते, विनाशहेत्वयोगात् , विनश्यतां हि घटादीनां विनाशस्य हेतुने युज्यते, यस्मात् स्वरूपत एव भावा नश्वराः स्वहेतुभ्यो यथास्वमुपजायमाना भङ्गुरप्रकृतय उपजननक्षणानन्तरकालानवस्थाना एव जायन्ते, नैषां स्वकारणसामग्रीतः प्रतिलब्धात्मनां सतां प्रकृतिभङ्गुरभावमपहायान्यस्मा
न्मुगरादेः कारणविशेषान्नाशस्य वस्तुन इवोत्पत्तिः, न चेदं स्वप्रक्रियानिर्हेतुकनाशपक्षः प्रकाशमात्रम् , किं तार्ह ? उपपत्त्या निभाल्यते विनाशहेतुत्वेनाभिमतस्य
नाशकरणं प्रति मुद्रादेरसामथ्र्यम्, कथं पुनरसामर्थ्यमिति? उच्यते-वि. नाशकरणे हि विनाशस्य त्रयी गतिः-विनश्यमानभावस्वभावं वा कुर्यादथवा स्वभावान्तरमभावं षा, तत्राव्यतिरेकपक्षस्तावदतिस्थूल एव, नहि विनाशहेतुर्मुद्रादिः घटादिकं भावस्वभाबमेव करोति, स्वकारणेभ्य एव कुलालादिभ्यस्तस्य प्रथममेव निवृत्तत्वात् निष्पन्नस्य चाकिश्चित्कार्यत्वात्, नापि स्वभावान्तरे कर्तव्ये तदवस्थस्य घटादेरविचलस्य विनशितुर्विकारोऽपि सम्भाव्यते, कुत एव तत्स्वभावप्रच्युतिः १ तदवस्थश्च घटः पूर्ववदुर्पलभ्येत, अर्थक्रियां च जलहरणादिकां कुर्वीत ॥ ननु चानित्याद् घटादेरर्थान्तरं कपालायेव विनाशस्तेन च विनाशहेतुनिष्पादितेन भावस्यावृत्तत्वान्न तथोपलब्ध्यादिप्रसङ्ग इति, उच्यते- न स्वभावान्तरं कपालादिकं विनाशहेतुना क्रियमाणमस्यानित्यस्य घटादेरावरणं युज्यते, कृतेऽपि तस्मिन् कपालादिके विनाशहेतुना घटे च तदवस्थ एव दृश्यात्मनि कुतस्त्य आवरणसम्भवः१ न चैकत्रैकदा युज्यते दर्शनादर्शने, विरुद्धत्वात् । नापि विनाशहेतुना तृतीयपक्षापतितो भावाभावः क्रियते, तत्र यद्येवं विकल्प्यते न विवक्षितो भावः अभाव इति ततोऽन्यः स्याद् भाव एव, एवं चाभावस्य विधिना पयुदासरूपेण कायेत्वाभ्युपगमे व्यतिरेकाव्यतिरेकविकल्पानतिक्रमः सम्भाव्यते, यदि व्यतिरिक्तमन्यं भावं करोति ततस्तथोपलब्ध्यादिप्रसङ्गस्तदवस्थः, अथाव्यतिरिक्तं तमेव भावं करोतीति तदप्ययुक्तम्, तस्य प्रथमतरमेव स्वकरणैर्निर्वर्तितत्वात् ॥ अथ क्रियाप्रतिषेधमात्रमालम्ब्यते, एवं सति अभावस्य भावप्रतिषेधरूपत्वेऽभ्युपेयमाने अभावं करोतीत्यसमर्थसमासेनोक्तं भावं न करोतीत्ययमर्थः सम्पयेत, तथा च सति अकर्तुनाशहेत्वभिमतस्याहेतुत्वमकारकत्वमिति न विनाशहेतुर्नाम कश्चन सम्भवत्यन्यत्र विनष्टुस्तद्धर्मताया इत्युपसंहारः, वैयर्थ्याचन विनाशहेतुरस्ति, यस्य भावस्य विनाशाय विनाशहेतुः कल्प्यते स भावः स्वभावतो नश्वरः स्यान
१ 'निभाज्यते ' इति क-ख-पा। १ लभ्यार्थक्रिया' इति क-ब-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org