________________
सूत्र ३ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
३२३
पञ्चैव भवन्त्येतानि न न्यूनान्यधिकानि वेति सङ्ख्यानियमो ऽभिप्रेतः, सर्वदा पञ्चास्तिकायात्मकत्वाज्जगतः, कालस्य चैतत्पर्यायत्वादिति । नापि भूतार्थत्वं व्यभिचरन्त्येतानि, अतोऽवस्थितान्युच्यन्ते । अन्योन्यावबन्धितायां सत्यामपि धर्मादीनि न स्वतत्वं भूतार्थत्वं वैशेषिकं लक्षणमतिवर्तन्ते, तच्च धर्माधर्मयोर्गतिस्थित्युपग्रहकारिता, नभसोऽवगाहदानव्यापारः, स्वपरप्रकाशिचैतन्य परिणामो जीवानाम्, अचैतन्यशरीरवाङ्मनः प्राणापान सुखदुःखजीवित मरणोपग्रहमूतत्वादयः पुद्गलानाम् । अथवाऽसङ्ख्येयादिप्रदेशानादिपरिणामस्वभावता वा भूतार्थता मूर्ततामूर्तता चेति, तां न जातुचिदनादिकालप्रसिद्धि शोपनीतां मर्यादामतिक्रामन्ति, स्वलक्षणव्यतिकरो हि निर्भेदताहेतुः पदार्थानाम्, अतः स्वगुणमपहाय नान्यदीयगुगसम्परिग्रहमेतान्यातिष्ठन्ते, तस्मादवस्थितानीति । अरूपाणि च, नैषां रूपमस्तीति । न समुदाय विशेषणमेतदरूपाणीत्यसम्भवाद् धर्माधर्माकाशजी वेषु चतुष्वैव सम्भवत्यमूर्तत्वं न पुनः पुद्गलेषु, अत एव प्रसक्तौ सत्यामुत्तरसूत्रेण निषेधः करिष्यते, चक्षुर्ग्रहणलक्षणं रूपं तदविद्यमानं येषां तान्यरूपाणीत्यरूपत्वाच्चक्षुषा नैतानि गृह्यन्ते, न तु चक्षुषैषामगृह्य वाणत्वमरूपत्वे कारणमुच्यते, परमाण्वादिभिरने कान्तात्, तस्मादरूपिग्रहणं द्रव्यस्वतच्च निर्ज्ञापनार्थं मूर्तिमत्व निवृत्तिप्रकाशनाय, प्रात्ययिकोत्पादवत्त्वे तु भाज्य मङ्गुल्याकाशादिवत् स्वतस्तु नै रूपमस्तीति । किं पुना रूपं नामेत्यत आह-रूपं मूर्तिः, मूर्तिर्हि रूपादिशब्दाभिधेया, सा च रूपादि संस्थानपरिणामा, नासर्वगतद्रव्यपरिमाणलक्षणा, व्यभिचारदर्शनात् सर्वतः परिमितत्वे लोकस्य आत्मनोऽपि मूर्तिमवप्रसङ्गः, काणभुजानां (?) परिमितत्वं चावश्यमभ्युपेयं विशिष्ट संस्थानत्वादिभिर्लोकस्य, अतो रूपमेवाव्यभिचारित्वान्मूर्तिरुच्यते । अपरेऽभिदधति - रूपशब्दो नीलादिवर्णाभिधायी समस्ति, अस्ति च दीर्घादि संस्थानप्रतिपादनपरः, तद् यः संस्थानप्रतिपत्तिमाविष्करोति रूपशब्दस्तमुररीकृत्यावोचदाचार्यो रूपं मूर्तिरिति, एवंविधमूर्त्याश्रिताश्च स्पर्शादयः किल सर्वदा न कदाचिदसंस्थाना भवितुमर्हन्ति, अन्यथा वान्ध्येयव्योमकुसुममण्डूकशिखण्डकल्पाः स्युरिति । अत्र पक्षे धर्माधर्मसिद्धसंस्थानैरनेकान्तः । तस्माद् रूपमेव मूर्तिरस्तु । एवं तर्हि गुणमात्रं मूर्तिशब्दस्य विषयः प्रसक्तः, न च रूपमेव मूर्तिरिति, उच्यते- द्रव्यास्तिकनयावष्टम्भात् सकलमिदं निरूप्यते, तत्र किमाश्वेव विस्मृतं भवतः, न खलु रूपादयस्तस्य केचिन्मूर्त्या विविक्ताः सन्ति, सैव हि मूर्तिद्रव्यस्वभावा चक्षुर्ग्रहणमासाद्य रूपमिति व्यपदिश्यते,
रूप विचारः
अत एव पुनराह सहचराव्यभिचारप्रदिदर्शयिषया-मूर्त्याश्रयाश्च स्पर्शादय इति । न खलु मूर्ति स्पर्शादयो व्यभिचरन्ति, सहचरितत्वात्, यत्र रूपपरिणामः तत्रावश्यन्तया स्पर्शरसगन्धैरपि भाव्यम्, अतः सहचरमेतच्चतुष्टयम्, अतः परमाणावपि विद्यते, न च परमाणवश्चतुर्गुणादिजातिभेदभाजः सर्वेषामेकरूपत्वात् इयांस्तु विशेषः - किञ्चिद् द्रव्यमुत्कटं गुणपरिणाममासाद्य तमेव त्यजति, यथा लवणहिगुनी संहतिपरिणाम सामर्थ्यवती लोचन स्पर्शनग्रहणगोचरतामुपेत्य जले विलीने सति रसनम्राणग्रहणयोग्यतामागच्छतः, न च वर्णस्पर्शो तत्र
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org