________________
२९२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ अतः कयाऽपि काका निदर्शनरूपया प्रज्ञाप्यत इत्यावेदयति, तमेवंप्रकारं समयं यस्मादनुपमलक्ष्मीप्रयत्नभाजः परमर्षयः परिहीणच्छमानः समस्तज्ञेयग्राहिणा केवलज्ञानेनावगच्छन्ति स्वरूपतो न पुनर्निर्दिशन्त्यन्यस्मै, परमनिरुद्धत्वादिति अल्पत्वादित्यर्थः । यावत् तत्स्वरूपप्रतिपादनाय भाषाद्रव्याण्यादीयन्ते तावदसङ्ख्येयास्तेऽतिक्रामन्तीत्यर्थः । परमनिरुद्धे हि तस्मिन् भाषाद्रव्याणां ग्रहणनिसर्गयोः करणप्रयोगासम्भव इति । कायकरणप्रयो गेण भाषाद्रव्याण्यादाय वाक्पयोप्तिकरणव्यापारेण निसृजति, तयोश्च निसर्गग्रहणविषययोः करणं व्यापारयितुं न शक्यतेऽत्यल्पत्वात् , अतः परमनिरुद्धे तस्मिन् भाषाद्रव्याणां ग्रहणनिसर्गासम्भवादवगतिरेव केवला न प्रज्ञापनमस्तीति । अथवाऽऽर्षप्रसिद्धया तुन्नांगदारकपट्टशाटिकापाटननिदर्शनात् समयप्रज्ञापना कायो । एवं तावत् समयः सर्वकालभेदादिरवसेयः।
भा० ते त्वसङख्यया आवलिका।ताः सङ्ख्यया उच्छवासः, तथा निःश्वासः। तौबलवतः पविन्द्रियस्य कल्पस्य मध्यमवयसः स्वस्थमनसः पुंसःप्राणः। ते सप्त स्तोकः । ते सप्त लवः । तेऽष्टांत्रिशद्धे च नालिका । ते हे मुहूर्तः। ते त्रिंश
दहोरात्रम् । तानि पञ्चदश पक्षः । तौ द्वौ शुक्लकृष्णौ मासः। . आवलिकादि तौ द्वौ मासावृतुः । ते त्रयोऽयनम् । ते वे संवत्सरः। ते पञ्च चन्द्रचन्द्राभिवधितचन्द्राभिवर्धिताख्या युगम् । तन्मध्येऽन्ते चाधिकमासकौ । सूर्यसावनचन्द्रनक्षत्राभिर्वर्धितानि युगनामानि । वर्षशतसहस्रं चतुरशीतिगुणितं पूर्वाङ्गम् । पूर्वाङ्गशतसहस्रं चतुरशीतिगुणितं पूर्वम् । एवं तान्ययुतकमलनलिनकुमुदतुट्यडडाववाहाहाहूहूचतुरशीतिशतसहस्रगुणाः सङ्ख्येयः कालः ।
टी०- ते चासङ्ख्येयाः समया आवलिका भण्यते, सा च जघन्ययुक्तकासङ्ख्येयकसमयप्रमाणा भवति । ताः सङ्ख्येयाः(४४४६२४७०) सत्य आवलिका एक उच्छ्वासो निःश्वासो वा ऊर्ध्वाधोगमनभेदात् । तावुच्छ्वासनिःश्वासावित्थंप्रमाणौ शारीरबलयुक्तस्यानुपहतकरणग्रामस्य नीरुजस्य मध्यवयोऽनुप्राप्तस्य मनोदुःखेनानभिभूतस्य पुरुषस्य प्राणो नाम कालविशेषो भवति, बलवदादिविशेषणानि च प्रतिविशिष्टोच्छ्वासपरिग्रहणाय,अन्यथा कर्तृभेदादनेकरूपाः समुच्छासनिःश्वासा इति न शक्येत प्राणस्वरूपं निरूपयितुमनवस्थितत्वात्, अत एवंप्रकारस्य पुंसो यावुच्छासनिःश्वासाविति । उक्तलक्षणाः प्राणास्ते सप्लसङ्ख्याकाः स्तोको नाम कालविशेषः। तेस्तोकाः सप्त लवोऽभिधीयते। लवानामष्टाधिका त्रिंशल्लवाधं च नालिका भवति । नालिकाद्वयं मुहूर्तः। त्रिंशन्मुहूर्तमहोरात्रम् । पञ्चदशभिरहोरात्रैः पक्षः। शुक्लकृष्णी द्वौ पक्षौ मासः । मासद्वयमृतुर्वसन्तादिभेदः । ऋतुत्रयमयनम् । अयनद्वयं संवत्सरः। ते
१ 'तुशगदारुक् पदशाटिका' इति क-पाठः । २ 'ऽष्टाधिकात्रिंश' इति क-पाठः । ३ जघन्यमध्यमोत्कृष्टपरीत्तयुक्तासंख्यातासंख्यातभेदेनासंख्यातस्य नवविधत्वात्, चतुर्थं चैतत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org