________________
२६२ तत्वार्थाधिगमसूत्रम्
[मध्यायः ३ बीपकसमसङ्ख्याः ,चक्रनाभिप्रतिबद्धारकवत् संस्थिताः, तत्र वर्षधरपर्वता निषधगिरिसदृशोच्छायाश्चतुर्योजनशतोच्छ्राया इत्यर्थः। कालोदलवणजलस्पर्शिनो वंशधराः सेष्वाकाराः कालोदसमुद्रो धातकीखण्डपरिक्षेपी लवणोदधिर्जम्बूद्वीपपरिक्षेपी, एतयोर्जल कालोदलवणजलं तत्स्प्रष्टुं शीलमेषामिति कालोदलवणजलस्पर्शिनो हिमवदादयः, सहेष्वाकारपर्वताभ्यां पञ्चयोजनशतोच्छ्रायाभ्यामिति । धातकीखण्डवर्तिनश्च हिमवदादयो जम्बूद्वीपकहिमवदादिविच्छेदप्रतिनिधिना व्यवस्थिता वैताढयादयः क्षेत्राणि चेति । अरविवरसंस्थिता वंशा इति । अराणां विवराण्यन्तरालानि तद्वद् व्यवस्थिताः वंशा:-क्षेत्राणि तत्रेति । सक्षेपात तु प्रतिपत्तव्यमिदं यन्नाम किश्चिन्नदीदेवकुरूत्तरकुरुप्रभृति जम्बूद्वीपेऽभिहितं तत् सर्वं धातकीखण्डे द्विरिवसातव्यमिति ॥ १२ ॥ यथैव धातकीखण्डे जम्बूद्वीपविधिर्द्विरुक्तस्तथैव
सूत्रम्-पुष्करार्धे ॥ ३-१३॥ मा०-यश्च धातकीखण्डे मन्दरादीनां सेष्वाकारपर्वतानां सङ्ख्याविषये नियमः स एव पुष्कराबै वेदितव्यः ॥
टी०-पुष्करद्वीपः कालोदसमुद्रपरिक्षेपी षोडशलक्षविष्कम्भस्तस्यार्धमारात्तममष्टौ योजनलक्षास्तस्मिन् पुष्करार्धे च जम्बूद्वीपविधिचिर्बिर्द्रष्टव्यः। यश्च धातकीखण्डे विधिरुक्त इष्वाकारौ दक्षिणोत्तरदिङ्मध्यावस्थितौ दक्षिणोत्तरायतौ पञ्चशतोचौ, तथा मन्दरौ चतुरशीसिसहस्रोच्छ्यादिको वंशधराश्चतुःशतोच्चा इत्येवमादिकः सङ्ख्याविशेषनियमः स पुष्कराघेऽप्यशेषो वेदितव्य इति । भा०-ततः परं मानुषोत्तरो नाम पर्वतो मानुष्यलोकपरिक्षेपी सुनगरप्रा
.. कार(वत्)वृतः पुष्करद्वीपार्धे निर्दिष्टः काञ्चनमयः । सप्तदशैकउपात्तरपवता विंशानि योजनशतानि उच्छ्रितः । चत्वारि त्रिंशानि कोशं
चाधो धरणितलमवगाढः । योजनसहस्रद्वाविंशमधस्तादू विस्तृतः । सप्तशतानि त्रयोविंशानि मध्ये । चत्वारि चतुर्विंशान्युपरीति ।
टी.-ततः परमित्यादि भाष्यम् । आरात्तमपुष्करार्धात् परतः समनन्तरोधान्यपल्यकार्धाकृतिः वलयवृत्तो मानुषोत्तराभिधानो गिरिर्मानुष्यलोकपरिक्षेपी महानगरप्राकारप्रतीकाशः कनकमयः पुष्करद्वीपार्धविभागकारीति । शेषं समुच्छायादि सुज्ञानम् ।
भा०-न कदाचिदस्मात् परतो जन्मतः संहरणतो वा चारणविद्याधरद्धिप्राप्ता अपि मनुष्या भूतपूर्वो भवन्ति भविष्यन्ति च । ____टी०-न कदाचिदस्मादित्यादि । अस्मान्मानुषोत्तराद् गिरेः परतो न कस्मिंश्चिदपि काले जायन्ते जनिष्यन्तेजनिषत चेति मनुष्या इत्यत एवायं मानुषोत्तरोभिधीयते । तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org