________________
२४०
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ३
चतुर्हस्तं धनुरिति । अथ शेषासु कथं भूमिष्वित्यत आह- द्विद्विः शेषासु । रत्नप्रभानारकशरीरप्रमाणं द्विगुणं द्वितीयस्यां नारकशरीरप्रमाणम् । तदपि द्विगुणं तृतीयस्याम् । एवं यावत् सप्तम्यां पञ्च धनुःशतानि पूर्णानि । उत्तरवैक्रियं तु प्रथमायां जघन्येनाङ्गुलसङख्येयभागप्रमितम्, अन्यासु च, उत्कर्षेण पञ्चदश धनूंषि अर्धतृतीयाश्च रत्नयः प्रथमायाम्, एतदेव द्विगुणं द्वितीयस्याम्, एवं तावत् ज्ञेयं यावत् सप्तम्यां धनुः सहस्रमिति । एतच्चाधः प्रमाणं रत्नप्रभादिषु पर्यन्तवर्तिप्रतरनारकाणामुत्कृष्टं द्रष्टव्यम्, जघन्यमुत्कृष्टं वा प्रथमप्रतरादिभेदेन सर्वत्र वक्तव्यम्, स्थितिवत् । यथाऽऽयुषः स्थितिः प्रथमप्रतरादिभेदेन भिद्यमाना दशनवतिसहस्रादिना रत्नप्रभायां पर्यन्तप्रतरे सागरोपमप्रमीणा भवत्येवमेव शरीरप्रमाणमपि प्रथमप्रतरादिभेदेन जघन्योत्कृष्टाभ्यां भेत्तव्यमित्यावेदयति । उक्तमिदमतिदेशतो भाष्यकारेणास्ति चैतत्, न तु मया कचिदार्गेमे दृष्टं प्रतरादिभेदेन नारकाणां शरीरावगाहनमिति ॥
भा०--अशुभतराश्च वेदना भवन्ति नरकेष्वधोऽधः । तद्यथा--प्रथमायां उष्णवेदनाः, द्वितीयायामुष्णवेदनाश्च तीव्रतरास्तीव्रतमाश्चातृतीयायानारकाणां वेदना म्, उष्णशीते चतुर्थ्याम्, शीतोष्णे पञ्चम्याम्, परयोः शीततराः शीततमाश्चेति, तद्यथा - प्रथमशरत्काले चरमनिदाघे वा पित्तप्रकोपाभिभूतशरीरस्य सर्वतो दीप्ताग्निराशिपरिवृतस्य व्यभ्रे नभसि मध्याह्ने निवातेऽतिरस्कृतातपस्य यादृगुष्णजं दुःखं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टमुष्णवेदनेषु नरकेषु भवति । पौषमाघयोश्च मासयोस्तुषारलिप्तगात्रस्य रात्रौ हृदयकरचरणाधरोष्ठदशनायासिनि प्रतिसमयप्रवृद्धे शीतमारुते निरग्न्याश्रयप्रावरणस्य यादृक् शीतसमुद्भवं दुःखमशुभं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टं शीतवेदनेषु नरकेषु भवति । यदि किलोष्णवेदनान्नरकादुत्क्षिप्य नारकः सुमहत्यङ्गारराशाबुद्दीप्ते प्रक्षिप्येत स किल सुशीतां मृदुमारुतां शीतलच्छायामिव प्राप्तः सुखमनुपमं विन्द्यात्, निद्रां चोपलभेत, एवं कष्टतरं नारकमुष्णमाचक्षते । तथा किल यदि शतिवेदनान्नर कादुत्क्षिप्य नारकः कश्चिदाकाशे माघमासे निशि प्रवाते महति तुषारराशौ प्रक्षिप्येत सेदन्तशब्दोत्तमप्रकम्पायासकरेऽपि तत्सुखं विन्द्यादनुपमां निद्रां चोपलभेत, एवं कष्टतरं नारकशीतदुःखमाचक्षते इति ॥
१ कथं शब्दः क ख पाठे नास्ति । २ 'शरीराणां द्विगुणं' इति क ख पाठः । ३ 'पूर्णानीति' इति ग-पाठः । ४ 'प्रमाण' इति क-पाठः । ५ आगमशब्देनात्र मूलागमः, तेन वृत्त्यादिषु एतत्सत्त्वेऽपि न क्षतिः, उत्तरं तु पृथ्वीवद द्विगुणमिति स्पष्टमेव । ६ 'अशुभतरवेदनाः' इत्यधिको ग घ पाठः । ७ ' तद्यथा - उष्ण वेदनास्तीत्रास्तीत्रतरास्ती - व्रतमाच तृतीयायाः' इति ग-घ-पाठः । ८ 'शीताः शीततराचेति' इति घ- पाठः । ९ 'प्रकृष्टमुष्ण' इति क ख पाठः । १० ' तुषारभिन्न ' इति क-पाठः । ११ 'सहन्त ' इति घन्पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org