________________
सूत्रे ४६-४७ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
न्यायेन क्रियन्ते तस्मात् सोपभोगानि इति निगमनम् कार्मणमपहायैकं शेषाण्येवंविधेनोपभोगेन सोपभोगानीति ॥ ४५ ॥
भा०- - अत्राह - एषां पञ्चानामपि शरीराणां सम्मूर्च्छनादिषु त्रिषु जन्मसु किं क जायत इति १ । अत्रोच्यते
टी० - अत्राहेत्यादिः सम्बन्धग्रन्थः । अजानानः प्रश्नयति - एषामौदारिकादीनां वपुषां पश्चानामपि त्रिषु जन्मसु सम्मूर्च्छनादिषु किं शरीरं क जन्मनि जायते सम्भवत्युत्पद्यते वा ? । अत्रोच्यते
२०७
सूत्रम् - गर्भसम्मूर्च्छन जमाद्यम् ॥ २-४६ ॥
भा०—आद्यमिति सूत्रक्रमप्रामाण्यादौदारिकमाह । तद् गर्भे सम्मूर्च्छने वा जायते ॥ ४६ ॥
टी० - आदौ भवमाद्यं शरीरप्रकरण प्रथमसूत्रक्रमप्रामाण्यादौ दारिकमाह, तद् गर्भे जन्मनि सम्मूर्च्छने वा जायते सम्भवतीति, जनि: जन्मनि प्रत्येकमभिसम्बध्यते । गर्भे जातं गर्भाद् वा गर्भजमेवं सम्मूर्च्छनजमपि, उक्तलक्षणे च गर्भसम्मूर्च्छने जन्मनामतो गर्भजन्मनां सम्मूर्च्छन जन्मनां च प्राणिनामौदारिकं तावद् भवति, न त्ववधार
मौदारिकमेव, तैजसकार्मणयोरपि तत्र सम्भवात्, लब्धिप्रत्ययवैक्रियाहाकयोर्वा गर्भजन्मन्युत्तरकालभावित्वात् ॥ ननु च भूते डविधानं तत् कथं भाष्यकारो विवृणोति जायत इति वर्तमानकालाभिधायिना शब्देनेति ? । उच्यते-न दोषोऽयं यस्माज्जातमुत्पन्नमुत्तरकालमपि पुनः पुनः पर्यायापेक्षया सम्भवतीत्युपऔदारिकप्रमाणम् पन्न एव निर्देश इति । एतच्च शरीरं जघन्येनाङ्गुला सङ्ख्येयभागप्रमामुत्कर्षतो योजनसहस्रप्रमाणमपि ॥ ४६ ॥
सूत्रम् — वैकियमोपपातिकम् ॥ २४७ ॥
भा० – वैक्रियं शरीरमौपपातिकं भवति । नारकाणां देवानां चेति ॥ ४७ ॥
औदारिकशरीरस्य स्वामिनः
वैक्रियस्वामिनः
टी० – उपपातजन्मोपपातशब्देनोच्यते तस्मिन् भवमौपपातिकं वैक्रियं शरीरं, तनमित्तत्वादवधिवत् सहजम्, तच्च सामर्थ्यान्नार कदेवानामेव न शेषाणाम् । द्विविधं च तद्-भवधारकमुत्तरवैक्रियं च तत्राद्यस्य जघन्येनाङ्गुला सङ्ख्येयभागः वैयप्रमाणम् प्रमाणम्, उत्कृष्टं पञ्च धनुःशतानि, उत्तरवैक्रियं जघन्येनाङ्गुलसङ्ख्येय
भागमितमुत्कर्षेण योजनलक्षणप्रमाणमिति ॥ ४७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org