________________
सूत्र २४] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१७३ (अ० २, सू० १३-१४ ) नव जीवनिकायाः, पञ्चेन्द्रियाणि स्थाघराणामिन्द्रि शायणमान (अ० २, सू० १५) चेति । तत् किं कस्येन्द्रियमिति ।
- अत्रोच्यते-पृथिव्यादीनां वाय्वन्तानां जीवनिकायानामेकमेवेन्द्रियम्, सूत्रक्रमप्रामाण्यात् प्रथमं स्पर्शनमेवेत्यर्थः ॥ २३ ॥
टी--अत्रेन्द्रियप्रकरणप्रस्तावे पर आह-प्रतिपादितं भवता भू-जल-तरु-हुताशनानिला द्वि-त्रि-चतुः-पञ्चेन्द्रियाच नव जीवभेदाः, पञ्चेन्द्रियाणि सङ्ख्यातो निरूपितानि तत् किं कस्यन्द्रियमिति स्पर्शनादीनां मध्ये पश्चानां किमिन्द्रियं स्पर्शनादि कस्य पृथिव्यादेरिति संशयानः प्रश्नयति ॥ नन्वनुपपन्न एव संशयः श्रोतुर्यतः प्राङ्निचायि तेनेदं स्थावरत्रसविधाने 'पृथिव्यम्बुवनस्पतयः स्थावराः' (अ०२, सू०१३) 'तेजोवायू द्वीन्द्रियादयश्च त्रसाः ' ( अ० २, मू० १४ ), तत्र द्वे एव इन्द्रिये येषां ते द्वीन्द्रियास्ते आदौ येषां ते द्वीन्द्रियादयः द्वित्रिचतुःपञ्चेन्द्रिया इत्यर्थः । सामोच पृथिव्यादीनामेकमेवेन्द्रिय भविष्यति वाय्वन्तानामेवं च सिद्धे सूत्रमपि नारब्धव्यमिति ? । उच्यते-द्वीन्द्रियादीनां सत्यं द्वीन्द्रियादिता निश्चिता द्वित्वादिसामान्यान्न विशेषतः द्वे इन्द्रिये येषामिति, के पुनस्ते द्वे इति न निश्चिनुमः । एवं त्रीन्द्रियादिष्वपि योज्यम् , तथा सामर्थ्यादिलाद्यनिलान्तानामेकं कतममि(दि)न्द्रियं भवतु किं न निर्दिश्यते अतस्तदवस्थः संशयस्तस्मादुपपन्नः प्रश्नः सूत्रारम्भश्चेति । अपिच चोदनाऽनवकाशैव, यतः किमिन्द्रियं कस्य जीवस्य विशेष्याभिहितम् । पृथिव्यादीनामित्यादि भाष्यम् । वाय्वन्तानामित्युक्ते न ज्ञायते किमादीनामेकं भवत्यतः सामथ्येलभ्यपृथिवीग्रहणमकरोद् भाष्यकारः ततः परमपरस्य जीवनिकायस्यासम्भवादिति । अथैवमाशङ्केत परतो मा भूत् सम्भव आरात् किं न सम्भवति वाय्वन्तानां वनस्पत्यादीनामबादीनां वा भवत्वेकमिति, एवं व्याचक्षाणेन शेषेजीवभेदपरित्यागे प्रयोजनं वक्तव्यमतो निष्फलत्वान्नैवमभिसम्बद्धं शक्यम् । जीवनिकायानामित्यचेतनपृथिव्यादिव्युदासः, जीवनिकायानां जीवसङ्घातानामेकमेवेन्द्रियं भवति न द्वयादीनि न विनिश्चितमेकं स्पर्शना. दीनां मध्ये कतमदित्यत आह-सूत्रक्रमप्रामाण्यात् प्रथमं स्पर्शनमेवेत्यर्थः। इन्द्रियनामनिर्देशस्त्रक्रमं प्रमाणीकृत्यैकं प्रथममवसेयम् , पुनस्तदेव विशिनष्टि नामतः-स्पर्शनमेवेति। न चाप्रसिद्ध एकशब्दः प्रथमार्थे, 'एको गोत्रे' इत्यादिदर्शनादिति।। २३ ॥
उक्तः क्षिति-उदक-तरु-ज्वलन-पवनानामिन्द्रियनियमः । सम्प्रति द्वीन्द्रियादीनामुच्यते इत्याह
सूत्रम्-कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २-२४॥
भा०-कृम्यादीनां पिपीलिकादीनां भ्रमरादीनां मनुष्यादीनां च यथासङ्ख्यमेकैकवृद्धानीन्द्रियाणि भवन्ति यथाक्रमम् । तद्यथा-कृम्यादीनां अपा१' विशेषोऽभिहित' इति ग-पाठः । २ ' दोषः' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org