________________
सूत्रं १]
स्वोपज्ञभाष्य-टीकालङ्कृतम् वेएइ अत्थेगइयं नो वेएइ, णायमेवं अरहता विण्णायमेयं अरहता-अयं जीवे इमं कम्म अज्झोवेगमियाए वेयणाए वेदिस्सति, अयं जीवे इमं कम्मं उवक्कमियाए वेयणाए वेदिस्सति अहाकम्मं अहाक(निग)रणं जहा जहा तं भगवया दिदं तहा तहा विपरिणमिस्सतीति-से तेणं अटेणं गोयमा ! एवं वुञ्चति" (भगवत्यां श०१, उ०४, म०४०) अतोऽस्ति विशेषः औपशमिकक्षायोपशमिकयोरिति । अत्रापि त एव दर्शनादिपर्यायाः श्रद्धानादिलक्षणाः प्रदेशकर्मोदययुजः क्षायोपशमिकशब्दवाच्या भवन्ति, चशब्दः समुच्चयार्थः, औपशमिकक्षायिकौ स्वतत्त्वं मिश्रश्च स्वतत्त्वमिति । जीवस्येति कर्तृलक्षणा षष्ठी, जीवस्यैवैते त्रयो भावाः, नान्यस्य स्तम्भकुम्भादेः, वक्ष्यमाणदर्शनादिकलापानुपलब्धेः, इह च जीवशब्द आत्मपर्यायः शुद्धो गृह्यते, नायुःप्राणसम्बन्धोद्भासितो जीवनाज्जीव इति, मुक्तानां तदनभिसम्बन्धात् । अथवा द्रव्यभावप्राणसामान्याङ्गीकरणे सति प्रतिविशिष्टसम्बन्धापेक्षः शब्दो भवत्येव जीवनाजीवः, संसारिणः द्रव्यप्राणाः पश्चेन्द्रियादयः, सिद्धानां भावप्राणाः ज्ञानोपयोगादय इति । स्वतत्त्वमित्ययं स्वशब्द आत्मात्मीयादिषु प्रसिद्धः, तत्रात्मनि वर्तमानोऽ ङ्गीक्रियते, तत्त्वशब्दो भावाभिधायी, ततश्चायं समुदायार्थः-जीवस्यायमात्मा भावः जीवस्यायमात्मस्वरूपभवनम् , एवमौपशमिकादिरूपेणात्मनैव स तथा भवतीति, अव्यतिरेकलक्षणा चेयं कर्तुरनर्थान्तरं षष्ठी, स्वतत्त्वं च पदार्थानामनध्यारोपितमनपोदितं च भवति, सर्वदा जीवश्चेतनालक्षण इति नाध्यारोपित, नापोदितं किंचित, चेतनायाः सुखदुःखादिसाधारणसंवेदनलक्षणायाः प्रति स्वं प्राणिविशेषप्रतिसंवेद्यत्वात, तत्राध्यारोपो विभुनिरवयवनिष्क्रियादिधर्मकत्वेन, अपवादो नास्त्यात्मा न प्रमाणविषयोःन च त्वपर्यन्तशरीरसम्बन्धीति, स्वानुभवविरुद्धत्वात् , अध्यारोपे चाप्रमाणकत्वात् , यदेव प्रत्यास्मप्रसिद्धं तदेवास्य लक्षणम्, वक्ष्यति च द्वितीयप्रश्नमधिकृत्य कथंलक्षणो वेति, 'उपयोगो लक्षणं' (अ०२, सू०८) इति, चेतनाविशेषलक्षितस्य च कर्मोदयाद्यपेक्षाणि मावान्तराण्यधिकृत्य को जीव इत्यत्र प्रश्ने प्रतिपत्तिराहिता आत्मनः, एकरूपमपि चैतन्यस्वतत्त्वं कर्मक्षयोपशमाद्यवस्थाविशेषनिमित्ताद्वयपदेशाद्भावेयत्तानियमं प्रतिपद्यते, उपलक्षणभूताश्चैते प्रायः कर्मापेक्षत्वाद् भवन्ति स्वतत्त्वं, यथा चक्षुारकज्ञानविषयो रूपमिति, उपयोगः पुनः स्वतत्वं यथा मूर्ती रूपमिति, तथा चाग्नेरुष्णत्ववच्चैतन्यलक्षणमहेयमात्मनः, तस्यैवाग्नेबूंमवदौपशमिकादि प्रायो हेयमुपलक्षणमिति । कर्मविपाकाविर्भाव उदयः तत्प्रयोजनस्तनिवृत्तो वा औदयिको भावः । तद्यथा-नरकगतिनामकर्मोदयानरकगतिरौदयिकोऽभिधीयते भावः, कषायमोहनीयोदयाच क्रोधी मानीत्याद्यौदयिकः, सर्वत्रैवं वासनाऽऽधेया, यद् पत्र भागकर्म तदस्त्येककं वेदयति, अस्त्येककं नो वेदयति, ज्ञातमेतदहता, विज्ञातमेतदर्हता-अयं जीव इदं कर्म आभ्युपगमिक्या वेदनया वेदयिष्यति । अयं जीव इदं कर्म औपक्रमिक्या वेदनया वेदयिष्यति, यथाकर्म यथानिकरणं यथा यथा भगवता दृष्टं तथा तथा विपरिणस्यति इति तत् तेनार्थेन गौतम । एवमुच्यते ।
'अज्झोदं गमियाए 'इति ग-टी-पाठः। २.निमित्ताथपदेशात् इति ग-टी-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org