________________
१२८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ टी०-समुदायेत्यादि । समुदायः-सङ्घातः व्यक्तिः-मनुष्य इति आकृतिःसंस्थानमवयवानां सत्ता-महासामान्यं संज्ञादयो-नामस्थापनाद्रव्यभावाः एषां समुदायादीनां निश्चयो-विशेषस्तमपेक्षते-अभ्युपैति यः स-समुदायव्यक्त्याकृतिसत्तासंज्ञादिनिश्चयापेक्षः । कथं निश्चयमेवापेक्षते न समुदायादीनीति ? उच्यते-नहि समुदायस्त्रैलोक्यादिरूपः समुदायिनोऽन्तरेण कश्चिदप्यस्ति, न च व्यक्तिः सामान्य विशेपरूपा मनुष्य इत्यादिका मनुष्यानन्तरेणास्ति, न चाकार आकारवन्तमन्तरेणास्ति, न वा सत्ता सत्तावन्तमन्तरेणास्ति, न वा नामादयो नम्यमानादीनन्तरेण केचन सम्भवन्ति, अनुपलभ्यमानत्वाद् व्यवहाराकरणादित्यर्थः विशेषस्तु स्वप्रत्यक्ष इति, तस्मात् स एव सत्य इत्येवं समुदायादिनिश्चयापेक्षस्तं विद्यादिति सम्बन्धः । लोकोपचारनियतमिति । लोके उपचारः गिरिर्दह्यत इत्यादिकः, तस्मिन् लोकोपचारे नियतं-निष्पन्नं व्यवहारनयं विस्तृतमिति उपचरितानुपचरितार्थाश्रयणाद् विस्तीर्णमित्यर्थः, विद्याद्-अवबुध्येत॥३॥
ऋजुसूत्रस्वभावमाहभा०-साम्प्रतविषयग्राहक-मृजुसूत्रनयं समासतो विद्याद् ।
विद्याद् यथार्थशब्दं, विशेषितपदं तु शब्दनयम् ॥ ४ ॥ इति ॥ टी०-साम्प्रतेत्यादि,साम्प्रतो-वर्तमानः विषयो-ज्ञेयस्तस्य ग्राहक, वर्तमानार्थाश्रयमित्यर्थः । समासत इति संक्षेपतः, यतो वर्तमानमात्मीयं नामादिकमित्यादिविशेषणोपेतं, सङ्गच्छत्ययम् । उत्तरार्धन शब्दस्वरूपमाह-विद्याद् यथार्थशब्दमिति । अनेन तु एवम्भूत इव प्रकाशितो लक्ष्यते, सर्वविशुद्धत्वात् तस्येति, यतः स एवमभ्युपैतियदाऽर्थश्चेष्टाप्रवृत्तस्तदा तत्र घट इत्यभिधानं प्रवत्यै, नान्यदिति । साम्प्रतसमभिरूढौ कस्सान्नामेडितावितिचेत् ? उच्यते-तावपि स्मारितावेव, यत आह-विशेषितपदं तु शब्दनयमिति, विशेषितपदमिति विशेषितज्ञानं, यतः साम्प्रतसमभिरूढयोरन्यादृशं ज्ञानं, नामादिषु प्रसिद्धपूर्वोच्छब्दादर्थे प्रतीतिः साम्प्रतः शब्दान्तरवाच्यश्चार्थः शब्दान्तरस्य नाभिधेयीभवतीत्येवं समभिरूढविज्ञानमिति, इतिः नयानुसरणपरिनिष्ठास्यूचकः ॥
__ भा०-अत्राह-अथ जीवो नोजीवः अजीवः नोअजीवः इत्याकारिते केन नयेन कोऽर्थः प्रतीयते ? इति।
टी०- अत्राह परः-घटाद्यजीवपदार्थोद्देशेन नैगमादयो नया विभाजीवादी नय. विचारत
विताः, सम्प्रति जीवपदार्थे विभावयन्नाह-अथ जीवो नोजीव
इत्यादि । अथवा घटोदाहरणे विधिरेव केवलः प्रदर्शितः, अधुना विधिप्रतिषेधौ जीवे निरूपयति-अथेति प्रस्तुतानन्तर्य द्योतयति, शुद्धपदे केवले आकारिते-उद्दिष्टे उच्चरिते वा जीव इति, नोजीवः अजीव इति देशसर्वप्रतिषेधयुक्तयोर्वा
१. संज्ञादि निश्चयाः०' इति क-घ-पाठः, 'संज्ञाविनिश्चया०' इति ग-पाठः । २ 'केवले आदिष्टे' इति क-ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org