________________
१२२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ स्वबुद्धया विभजन्त एवमाहुः । चोदकपक्षग्राहिण इति । चोदको-दुरुक्तानुक्तादिसूचकस्तस्य पक्षो-विषयः तं चोदकपक्षं ग्रहीतुं शीलमेषामिति चोदकपक्षग्राहिणः मतिभेदोबुद्धिभेदस्तेन विप्रधाविताः,अयथार्थनिरूपका इतियावत् । एवं चोदयतोऽयमभिप्रायः-यद्ययं तन्त्रान्तरीयत्वमेषां दर्शयिष्यति नास्य वक्ष्यमाणो विप्रतिपत्तिदोष आपत्स्यते, अथ स्वतन्त्रा एवेति निश्चेष्यति तथा सति नैव स्वेच्छास्वतन्त्राणामभ्यनुज्ञातो वस्त्वंशोऽभ्युपेयो वस्तुभागश्च प्रोज्झ्यः, यस्मादेकस्यापि पदस्यारोचनान्मिथ्यादर्शनमिति । एवंविधदोषोपचिक्षिप्सया चोदयति ॥ अथ पक्षान्तरमाश्रयिष्यति तत्राप्यस्य सुखेन विप्रतिपत्तिदोषं चोदयिष्यामीति मत्वा प्रश्नयति, सूरिस्तूभयमप्येतत् परित्यजन् पक्षान्तरमाश्रयते अत्रोच्यते इति ॥ नैते तन्त्रान्तरीयाः, नापि स्वतन्त्राः, किं तर्हि ? तदाह-ज्ञेयस्येत्यादि। विज्ञानगम्यस्य जीवादेः स्वसंवेद्यस्य वाच्यस्यार्थस्य घटपटादेः अध्यवसायान्तराणि विज्ञानभेदाः, आधिक्येनावसीयन्ते-परिच्छिद्यन्ते ततो येन सोऽध्यवसायः-प्रत्ययो विज्ञानम् अन्तराणीति भेदाख्यानम् , एतानीति नैगमादीनि पञ्च, एतत् कथितं भवति-वस्त्वेवानेकधर्मात्मकमनेकाकृतिना ज्ञानेन निरूप्यत इत्यतः स्वशास्त्रनिरूपणमेवेदम् , एतच्च दर्शयति
भा०-तद्यथा-घट इत्युक्ते योऽसौ चेष्टाभिनिवृत्त ऊर्ध्वकुण्डलौष्ठायत__ वृत्तग्रीवोऽधस्तात् परिमण्डलो जलादीनामाहरणधारणसमर्थ
* उत्तरगुणनिर्वर्तनानिवृत्तो द्रव्यविशेषस्तस्मिन्नेकस्मिन् विशेषवति तज्जातीयेषु वा सर्वेष्वविशेषात् परिज्ञानं नैगमनयः॥
टी०-तद्यथेत्यादिना । यथा ह्येते एकवस्तुविषया विज्ञान विशेषास्तथोदाहरणेन भावयति-घट इत्युक्ते नैगमाध्यवसाय एवं मन्यते-योऽसाविति लोकसिद्धः, चेष्टाभिनिवृत्त इति धात्वर्थानुगतिमाविष्करोति, कुम्भकारचेष्टाभिनिवृत्तोऽर्थो निष्पन्नः। किमाकार इति चेद् ? अत आह-ऊर्ध्वमित्यादि । ऊर्ध्वमुपरि कुण्डलौ वृत्तावोष्ठौ यस्य आयता-दीर्घा वृत्ता-समपरिधिः ग्रीवा यस्य ऊर्ध्वकुण्डलौष्ठश्वासावायतवृत्तग्रीवश्चेति समानाधिकरणः, उपरि तावदेवमाकारः। अथ अधस्तात् किमाकार इत्यत आह-अधोभागे परिमण्डलः, समन्ताद वृत्त इत्यर्थः । कस्य पुनः कार्यस्यासौ क्षम इत्याह-जलादीनामित्यादि । जलधृतक्षीरादीनामाहरणे-देशाद् देशान्तरसञ्चारणे समर्थः-शक्तः आनीतानां च धारणे प्रत्यलः। उत्तरेत्यादि । पाकजरक्तादिगुणपरिसमाप्त्या निष्पन्नद्रव्यविशेष इति । न द्रव्यं सामान्यमात्रं, किं तर्हि ? द्रव्यविशेषः, परमार्थे सति, वाचा न संवृत्तिसतीति, तस्मिन् एवमात्मके एकस्मिन् विशेषाः शुक्लपीतादयः कनकरजतादयः खण्डहुण्डादयो वा तद्वति तज्जातीयाः-तत्प्रकाराः व्यावर्णितघटप्रकाराः तेषु च सर्वेषु लोकप्रसिद्धेषु अविशेषात् अभेदेन परिज्ञानं-निश्चितावबोधः नैगमः देशसमग्रग्राही नैगम इति, पूर्वाभिहितलक्षणप्रपञ्चोऽयं सामान्यविशेषवैचित्र्यप्रदर्शनार्थः ॥
१ एवं च' इति ख-ग-पाठः ।
घटे नयावतारः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org