SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सूत्रं २३ ] स्वोपज्ञभाप्य - टीकालङ्कृतम् ९७ शिक्षां अन्योपदेशरूपां तपश्च अनशनादिरूपमन्तरेण तद्वन्नारकदेवानां शिक्षां तपचान्तरेण तदवधिज्ञानं प्रादुरस्तीति ॥ २२ ॥ द्विविधोऽवधिरित्युक्तम्, तत्रैकं भेदं प्रतिपाद्य द्वितीयभेदं दर्शयन्नाह - यथोक्तमित्यादि । अथवा यथा देवनारकावधिर्भवं क्षयोपशमं चोभयमपेक्षते एवं किं क्षयोपशमोऽपि अवश्यं मनुष्यादिभवे प्राप्ते भवत्येव उत नेति ? । उच्यते-नः तत्र भवः सन्नपि कारणतयाऽभ्युपेयते, तद्भावेऽप्यभावादवधेः, किंतु क्षयोपशम एव प्राधान्येन निरूप्यते सूत्रम् - यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् ॥ १-२३ ॥ टी. - यथोक्तनिमित्त इत्यादिना । यथा येन प्रकारेण उक्तं-उदितं निमित्तंनरतिरश्चां तुरस्य स यथोक्तनिमित्तः ॥ ननु भवोऽपि उदितं निमित्तं तस्येत्याषड्विधोऽवधिः शङ्कय स्वयमेनं यथोक्तं निमित्तशब्दमुच्चार्यार्थं कथयति - भा०—यथोक्तनिमित्तः, क्षयोपशमनिमित्त इत्यर्थः । तदेतदवधिज्ञानं क्षयोपशमनिमित्तं षड्विधं भवति । शेषाणामिति नारकदेवेभ्यः शेषाणां तिर्यग्योनिजानां मनुष्याणां च । अवधिज्ञानावरणीयस्य कर्मणः क्षयोपशमाभ्यां भवति षड्विधम् । तद् यथा टी० - यथोक्तनिमित्त इति । क उक्त एवं बुद्धिर्भवेत् ? । उच्यते - एवं क्षयोपशमनिमित्त इत्यर्थः, क्षयश्चोपशमश्च क्षयोपशमौ तौ निमित्तमस्य अत एवमभिधीयते क्षयोपशमनिमित्त इति, यथा सम्यग्दर्शनादि क्षयोपशमनिमित्तं तद्वदेष इति । षडिति सख्येयप्रधानसङ्ख्याभिधायी, विकल्प इत्यनेकरूपं यत् कल्पनं यावत् स्थानै रूपैरित्यर्थः । पड् विकल्पा यस्य स षड्विकल्प इत्यवधिसम्बन्धे षड् विकल्पोऽवधिः पुल्लिङ्गः । यदा त्ववधिशब्दः प्रकृतस्य ज्ञानस्य विशेषणं भवति तदा नपुंसकलिङ्गता षड्विधमिति । एतदाह- तदेतदित्यादि । तदिति पुरस्ताद् यदुक्तं, एतदिति भवतः प्रत्यक्षं, हृदि विपरिवर्तमानत्वात्, अवधिज्ञानं क्षयोपशमजं, नेतरत्, षड्विधं भवति, षड्विधक्षयोपशम सद्भावादित्यर्थः । केषां षोढा ? अत आह- शेषाणाम् । अस्य चार्थं विवृणोति - शेषाणामित्यादिना । शेषाणामुपर्युक्त - वर्जितानाम्, ते के चोपर्युक्ताः ? देवनारकाः, तेभ्यो देवनारकेभ्यः शेषाणाम्, तद्वर्जाच नान्ये तिर्यङ्मनुष्यान् अन्तरेण सन्तीत्यत आह- तिर्यग्योनिजानां मनुष्याणां च, तिरथांगवादीनां योनिः – उत्पत्तिस्थानं गर्भादि तत्र जन्यन्त इति तिर्यग्योनिजाः पञ्चेन्द्रियाः पर्याप्ताः संज्ञिनो ग्राह्याः, तेषामेव तेन योगात्, असंज्ञिपश्चेन्द्रियादीनां तु तदभावः, अतस्तेषां मनुष्याणां च गर्भजादिविशिष्टानां न तु संमूर्च्छजानामिति । कथं पुनरेकं सत् षड्विधमिति व्यपदिश्यते ? । आह-उपाधिभेदात् । स चोपाधिः क्षयोपशमोऽनेकरूपः ज्ञानावरणीयकर्मण इत्येतद् दर्शयति-ज्ञानमवधिस्तस्यावरणीयम् - आच्छादकं भास्करस्येवाश्रादि तस्य ज्ञानावरणीयस्य कालान्तरकृतस्य कर्मणः क्षयोपशमाभ्यां उक्तस्वरूपाभ्यां षड्विधं भवति, १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy