________________
-२९६]
११. वोधिदुर्लभानुप्रेक्षा
२०९ पूर्णता चक्षुर्घाणश्रोत्रहस्तपादादिना हीनाङ्गतारहितता इन्द्रियाणां पटुत्वं दुर्लभा दुःप्राप्या। अथ अथवा इन्द्रियसंपूर्णः स्पर्शनरसनघ्राणचक्षुःश्रोत्रहस्तपादाङ्गुल्याद्यवयवसंपूर्णः । तह वि तथापि इन्द्रियपटुत्वे सति देहः शरीरं सरोगः ज्वरभगन्धरकुठोदरकुक्षिशिरोरोगकुष्ठसंनिपातप्लीहपाठादिव्याधिसंयुक्तो भवेत् ॥ २९२॥
अह णीरोओ होदि हु तह वि ण पावेदि' जीवियं सुइरं'।
अह चिर-कालं जीवदि तो सीलं' णेव पावेदि॥ २९३ ॥ [छाया-अथ नीरोगः भवति खलु तथापि न प्राप्नोति जीवितं सुचिरम् । अथ चिरकालं जीवति तत् शीलं नैव प्राप्नोति] अथ अथवा, हु इति कदाचित् , अव्ययानामनेकार्थत्वात् , नीरोगो जातः रोगरहितो भवति। तथापि सुचिरं जीवितव्यमायन प्राप्नोति । अथ अथवा चेत् चिरकालं कोटिपूर्वादिपर्यन्तं जीवति प्राणधारणं विदधाति तो तर्हि शीलं ब्रह्मचर्यलक्षणं व्रत. प्रतिपालनस्वभावं च नैव प्राणोति ॥ २९३ ॥
अह होदि सील-जुत्तो' तो वि ण पावेइ साहु-संसग्गं ।
अह तं पि कह वि पावदि सम्मत्तं तह वि अइदुलहं ॥ २९४॥ [छाया-अथ भवति शीलयुक्तः ततः अपि न प्राप्नोति साधुसंसर्गम् । अथ तम् अपि कथमपि प्राप्नोति सम्यक्त्वं तथापि अतिदुर्लभम् ॥] अथ अथवा कथमपि यदि शीलयुक्तः ब्रह्मचर्यविशिष्टो वा उत्तमस्वभावसंयुक्तो वा गुणव्रतत्रयशिक्षाव्रतचतुष्कशीलसप्तकसंयुक्तो भवति । तथापि तद्यपि साधुसंसर्ग साधूनां रत्नत्रयसाधकानां योगिनां संसर्गः संयोगः गोष्टिः तं न प्राप्नोति न लभते । अथ यदि तमपि साधुसंसर्ग कथमपि प्राप्नोति तथापि सम्यक्त्वं तत्त्वश्रद्धानलक्षणं व्यवहारसम्यक्त्वं निश्चयसम्यक्त्वं च अतिदुर्लभं दुःप्राप्यं भवति ॥ २९४ ॥
सम्मत्ते वि य लद्धे चारित्तं णेव गिण्हदे जीवो।
अह कह वि तं पि गिण्हदि तो पालेदुं ण सक्केदि ॥ २९५ ॥ छाया-सम्यक्त्वे अपि च लब्धे चारित्रं नैव गृह्णाति जीवः । अथ कथमपि तत् अपि गृह्णाति तत् पालयितुं न शनोति ॥] अपि च विशेषे । कदाचिद्देवतः इति पदं सर्वत्र योज्यम् । सम्यक्त्वे लब्धे सम्यग्दर्शने प्राप्ते सति जीवः आत्मा चारित्रं त्रयोदशप्रकारं सर्वसावद्यविरतिलक्षण सामायिकादिपञ्चप्रकारं वा निश्चयव्यवहारात्मकं च नैव गृह्णाति । अथ यदि कथमपि महता कष्टेन तदपि चारित्रं कदाचिदैवयोगतः गृह्णाति, तो तर्हि तत् चारित्रं पालयितुं रक्षितुं न शक्नोति न समर्थो भवति । रुद्रवरत्रादिमुनिवत् ॥ २९५॥
यणत्तये वि लद्धे तिव्व-कसायं करेदि जइ जीवो।
तो दुग्गईसु गच्छदि पण?-रयणत्तओ होउं" ॥२९६ ॥ भी ठीक हुए तो नीरोग शरीर मिलना दुर्लभ है क्योंकि मनुष्यशरीर ज्वर, भगंदर, कुष्ट, जलोदर, प्लीहा, सन्निपात, आदि व्याधियोंका घर है ॥ २९२ ॥ अर्थ-अथवा कदाचित् नीरोग भी हुआ तो लम्बी आयु नहीं पाता, अर्थात् जल्दी ही मर जाता है । अथवा कदाचित् लम्बी आयु भी पाई तो उत्तम खभावरूप शीलको नहीं पाता ॥ २९३ ।। अर्थ-कदाचित् उत्तम खभावरूप शीलको पाता भी है तो रत्नत्रयके साधक साधुजनोंकी संगति नहीं मिलती । यदि किसी प्रकार साधु संगतिका लाभ भी हो जाता है तो तत्वार्थश्रद्धानरूप सम्यक्त्वका पाना अति दुर्लभ है ॥ २९४ ॥ अर्थ-दैववश कदाचित् सम्यक्त्वको प्राप्त भी करले तो चारित्रको ग्रहण नहीं करता । और कदाचित् दैवयोगसे चारित्र ग्रहण भी करले तो उसे पालनेमें असमर्थ होता है ॥ २९५ ।। अर्थ-कदाचित् सम्यग्दर्शन सम्यग्ज्ञान और
१५ कुठंदर। २ ल सग पावेद। ३ बस सुथरं । ४ ब ग शीलं। ५ल स ग पावेइ । ६ ग शीलयुत्तो। ७ल मस ग तह वि। ८ ब गिन्हदे, गिन्हदि । ९ग जीओ। १० प रयणत्तए। ११ ब होउ (?)।
कार्तिके०२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org