________________
श्रीसर्वज्ञ
श्री पंचगुरुभ्यो नमो नमः। सिद्धान्तसार
श्रीजिनचन्द्राचार्य-प्रणीतः सिद्धान्तसारः।
(भाष्योपेतः।)
प्रणम्यादौ लक्ष्मीवीरेन्दुसेवितम्। भाष्यं सिद्धान्तसारस्य वक्ष्ये ज्ञानसुभूषणम्॥ १॥ जीवगुणठाणसण्णापज्जत्तीपाणमग्गणणवूणे।। सिद्धंतसारमिणमो भणामि सिद्धे णमंसित्ता॥ १॥ जीवगुणस्थानसंज्ञापर्याप्तिप्राणमार्गणानवोनान्।
सिद्धान्तसारमिदानीं भणामि सिद्धान् नमस्कृत्य।। • एतद्गाथार्थः- इणमो- इदानीं। सिद्धन्तसारं-इति, सिद्धान्तसार-नामग्रथं। भणामीति-भणिष्यामि कथयिष्यामि। यावत् किं कृत्वा ? पूर्वं सिद्धे णमंसित्ता- सिद्धान् नमस्कृत्य। कथंभूतान् सिद्धान् ? जीवगुणठाणसण्णापज्जत्तीपाणमग्गणणवूणे .. जीवगुणस्थानसंज्ञापर्याप्तिप्राणमार्गणानवकोनान्। जीव इति चतुर्दशजीवसमासाः। गुणठाण चतुर्दशगुणस्थानानि। सण्णा चतस्त्रः संज्ञाः। पज्जत्ती षट्पर्याप्तयः। पाण दशद्रव्यप्राणाः। मग्गणणव इति--नवसंख्योपेता मार्गणाः। एतैः ऊणे ऊनान् रहितानित्यर्थः।। १।।
अन्वयार्थ- (जीवगुणठाण सण्णा पज्जतीपाण मग्गण णव ऊणे) जीव समास, गुणस्थान, संज्ञा, पर्याप्ति, प्राण और नौ मार्गणाओं से रहित (सिद्धे) सिद्धों को (णमंसित्ता) नमस्कार कर (इणमो) अब (सिद्धंतसार) सिद्धांतसार नामक ग्रन्थ (भणामि) कहूँगा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org