________________
सम्याद स्याद्वादोपेतमा पर्यायशक्तिप्रवावलं ज्ञानम् महत्यागहेतुः, अशा
श्रीज्ञानमञ्जरी ऋजुसूत्रेण वर्तमानबोधः यथार्थायथार्थरूपमुभयज्ञानम्, शब्दनयेन सम्यग्दर्शनपूर्वकयथार्थावबोधलक्षणं कारणकार्यसापेक्षं ज्ञानं स्वपरप्रकाशं स्याद्वादोपेतमर्पितानर्पितादियुक्तं सम्यग्ज्ञानं ज्ञानम्, समभिरूढनयेन सकलज्ञानवचनपर्यायशक्तिप्रवृत्तिरूपम्, एवंभूतनयेन मत्यादीनां स्वस्वरूपपूर्णे एवंभूतता वस्तुतः केवलं ज्ञानम् एवंभूतज्ञानम्, अत्र मिथ्यादर्शनेऽपि विपर्यासोपेतं ज्ञानं कुज्ञानम्, तन्न मोहत्यागहेतुः, अतः सम्यग्दर्शनपूर्वकस्वस्वरूपोपादेयपरभावहेयोपयोगलक्षणं सम्यग्ज्ञानं गृहीतम्, तस्यैव संसारौदासीन्यहेतुत्वात् उक्तं च
तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ? ॥१॥
अतः ज्ञानं तत्त्वावबोधरूपम्, आत्मनः स्वस्वभावाविष्करणहेतुः, मोक्षमार्गस्य मूलम् 'ज्ञानक्रियाभ्यां मोक्षः' [15] पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । [ दशवै०अ०४, गा०१०] एवं स्वरूपम् । अत्रानुप्रेक्षायुक्तस्पर्शज्ञानस्यावसरस्तद् व्याख्यायते
मज्जत्यज्ञः किलाज्ञाने, विष्ठायामिव शूकरः । ज्ञानी निमज्जति ज्ञाने, मराल इव मानसे ॥१॥
मज्जत्यज्ञ इति-अज्ञः-स्वभावविभावाविवेचकः, किल इति सत्ये, अज्ञाने-अयथार्थोपयोगे, मज्जति-मग्नो भवति, यथार्थावबोधविकलः अयथार्थे लीनो भवति, कमिव (क इव ?) विष्ठायां शूकरः इव, यथा शूकरः विष्ठायां मज्जति तथाऽज्ञोऽभोग्ये आत्मगुणावरणकारणे परवस्तुनि सातादिविपाके इन्द्रियविषये मज्जति । ज्ञानी-यथार्थावबोधी, ज्ञाने-तत्त्वावबोधे आत्मस्वरूपे निमज्जति-तन्मयो भवति । आत्मस्वरूपावबोधानुभवलीनाः शब्दादिविषयान् मनोज्ञानिन्द्रादिविस्मयहेतूंस्तृणयन्ति, रमन्ते स्वरूपे, भीष्मग्रीष्मतापतप्तशिलातलस्थाः अपि शीतलाः, अत्यन्तहिमे अकम्पा ध्यायन्ति स्वतत्त्वम्, जगद्विक्षोभ
१. प्रकाशकम्- A.D. L.D.1.3. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org