SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ज्ञानाष्टकम् (५) मनाक्षोभक्षुब्धाः(?) चिन्तयन्ति स्वगुणपर्यायान्, शक्रस्पर्धिचक्रिलीलां त्यजन्ति, किं बहुना? आत्मानन्दावबोधरसिकानामन्यद् दुष्टम्, यथार्थसम्पूर्णप्रत्यक्षात्मबोधरसिकाः तितिक्षन्ति परीषहान्, प्रारम्भयन्ति श्रेणिम्, तन्वन्ति स्वरूपैकत्वरूपं ध्यानम्, अतः ज्ञानास्वादिन एव धन्याः । उक्तं च संवेगरङ्गशालायाम: ते धन्ना सुकयत्था, जेसिं नियतत्तबोहरुइ जाया । जे तत्तबोहभोई, ते पुज्जा सव्वभव्वाणं ॥१॥ जेसिं निम्मलनाणं, जायं तत्तं सहावभोगित्तं । ते परमा तत्तसुही, तेर्सि नाम पि सुट्टयरं ॥२॥ तेषां जन्म जीवितं सफलम्, ये स्वतत्त्वबोधरसिका इति, अतो ज्ञानी ज्ञाने मज्जति, यथा मरालः-हंसः मानसे मज्जति तथा इति ॥१॥ निर्वाणपदमप्येकम्, भाव्यते यन्मुहुर्मुहुः । तदेव ज्ञानमुत्कृष्टम्, निर्बन्धो नास्ति भूयसा ॥२॥ निर्वाणपदमिति- निर्वाणपदं-निष्कर्मताहेतुपदम्, एकमपि स्याद्वादसापेक्षम्, मुहुर्मुहुः-वारंवारं भाव्यते-आत्मतन्मयतया क्रियते, वाचना-प्रच्छना-परावर्तना-ऽनुप्रेक्षा-धर्मचिन्तन-परिशीलन-निदिध्यासन-ध्यानतया करणं कर्तृत्वं कार्यत्वं कारणत्वम् आधारत्वम् आस्वादनं विश्रामः स्वरूपैकत्वम् । तदेवोत्कृष्टं ज्ञानं येनाऽऽत्मा स्वरूपलीनो भवति अनाद्यनास्वादितात्मसुखमनुभवति । तत् पदमप्यभ्यस्यम् । शेषेण वाग्विस्ताररूपेण भूयसाऽपि वेदनज्ञानेन न निर्बन्धः । किं बहुतरेण जल्पज्ञानेन ? भावनाज्ञानं स्वल्पमप्यमृतकल्पम् अनादिकर्मरोगापगमक्षममिति ॥२॥ स्वभावलाभसंस्कार-स्मरणं (कारणं)* ज्ञानमिष्यते । ध्यान्ध्यमात्रमतस्त्वन्यत् तथा चोक्तं महात्मना ॥३॥ ★स्मरणं-A.D.,L.D.1. । टीकायां-स्मरणम् इति पदं व्याख्यातम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy