________________
मग्नाष्टकम् (२) [4] ते कत्तिया पएसा ? सव्वागासस्स मग्गणा होइ । ते जत्तिया पएसा, अविभागतो अणंतगुणा ॥४५१२॥
[बृहत्कल्पसूत्रम् गा० ४५१२] प्रथमं संयमस्थानं सर्वोत्कृष्टदेशविरतिविशुद्धस्थानतः अनन्तगुणविशुद्धम्, द्वितीयं संयमस्थानं प्रथमस्थानात् अनन्ततमे भागे यावन्तः अविभागास्तावदविभागवृद्धौ भवति, एवं तृतीयम्, एवं चतुर्थम्, एवमनन्तभागवृद्ध्या अङ्गुलमात्राकाशक्षेत्रस्य अङ्गुलासङ्ख्यभागाकाशप्रदेशप्रमाणसमानि' स्थानानि भवन्ति, इदं प्रथम कण्डकम् । ततः परमसङ्ख्यातभागवृद्धिरूपं द्वितीयं कण्डकम्, प्रथमं संयमस्थानं प्रथम कण्डकम् । चरमसंयमस्थाने तावन्तोऽविभागाः तेषामसङ्ख्याततमे भागे यावन्तः अविभागास्तावन्तोऽधिकाः क्षयोपशमा भवन्ति, तद् द्वितीये कण्डके प्रथमं संयमस्थानम्, ततः असङ्ख्येयानि स्थानानि अनन्तभागवृद्धिरूपाणि अङ्गलासङ्ख्येयभागप्रदेशराशिप्रमाणानि द्वितीयं कण्डकम् । ततः परमेकमसङ्ख्यातभागवृद्धिरूपम्, पुनः असङ्ख्येयानि अनन्तभागवृद्धिरूपाणि तृतीयं कण्डकम् । ततः एकम् असङ्ख्यभागवृद्धिरूपम्, एवमनन्तभागान्तरिताङ्गलासङ्ख्येयभागमात्रमसङ्ख्यभागवृद्धिरूपमङ्गलासङ्ख्येयभागकण्डकमानस्थानरूपं द्वितीयं स्थानम् । ततः सङ्ख्यातभागवृद्धिरूपं प्रथमं संयमस्थानम् । ततः पुनः अनन्तभागवृद्धिरूपाणि असङ्ख्येयानि, ततः पुनः एकमसङ्ख्यभागवृद्धिरूपम्, ततः असङ्ख्येयानि अनन्तभागवृद्धिरूपाणि, एवमङ्गलमात्रक्षेत्रासङ्ख्यभागप्रदेशमानकण्डकेषु गतेषु एकं सङ्ख्यातभागवृद्धिरूपं स्थानम्, एवमङ्गलासङ्ख्येयभागतुल्यानि सङ्ख्येयभागवृद्धिस्थानानि गतानि । एवं सङ्ख्यातगुणवृद्धि-असङ्ख्यातगुणवृद्धिअनन्तगुणवृद्धिरूपाणि असङ्ख्येयानि संयमस्थानानि भवन्ति । ततः परं स्थानमसङ्ख्येयगुणसंयमस्थानमानं भवति । एकान्तरं तानि असङ्ख्येयानि अनन्तभागवृद्धिरूपाणि संयमस्थानानि भवन्ति । सर्वसंयमस्थान१. समानस्था० S.M., B.2. । २. मसंख्यातमे S.M., B.1.2., V.2., A.D.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org