________________
श्रीज्ञानमञ्जरी
लोकनरमणरक्तस्य, पौद्गलिकी - पुद्गलसम्बन्धिनी, कथा - नाम वार्त्ता, श्लथा-शिथिला इत्यर्थः । परत्वेन अग्राह्यत्वेन अभोग्यत्वेन निर्धारात् यस्य कथापि श्लथा तस्य ग्रहः कुतो भवति ? अत एव अमी चामीकरोन्मादाः तस्य क्व ? शुद्धात्मगुणसम्पद्वतां चामीकरग्रहः एव न, परत्वात् पापस्थानहेतुत्वात् कुतं उन्मादः ? च- पुन:, स्फारादेदीप्यमाना, दारा- वनिता तस्या आदराः क्व ? इति कुत्र नैवेति । स्वभावसुखभोगिनां पौद्गलिकभोग एव न तर्हि या कुटिरागपटी अशुद्धविभावनटी दाराकटी तत्रादरः कथं भवति ? नैवेति ॥४॥
१२
तेजोलेश्याविवृद्धिर्या, साधोः पर्यायवृद्धितः । भाषिता भगवत्यादौ, सेत्थंभूतस्य युज्यते ॥ ५ ॥
तेजोलेश्या इति- तेजोलेश्या - चित्तसुखलाभलक्षणा ज्ञानानन्दास्वादाश्लेषरूपा तस्या विवृद्धिः - विशेषतो वर्द्धनम् या, साधोःनिर्ग्रन्थस्य, पर्यायवृद्धितः - चारित्रपर्यायवृद्धितः, भगवत्यादौ भाषिताउक्ता, भगवत्यादौ- पञ्चमाङ्गे सा-निर्मलसुखास्वादरूपा, इत्थंभूतस्यआत्मज्ञानमग्नस्य रत्नत्रयैकत्वलीलामयस्य वाचंयमस्य युज्यते - घटते, नान्यस्य मन्दसंवेगिनः । अत्र प्रस्तावना - तत्र प्रथमं संयमस्वरूपमुच्यतेआत्मनि चारित्रनामा गुणः अनन्तपर्यायोपेतानन्ताविभागरूपोऽस्ति । तथा च विशेषावश्यके दानादिलब्धिपञ्चकं चारित्रं सिद्धस्यापि इच्छन्ति तदावरणस्य तत्राप्यभावात्, आवरणाभावे च तदसत्त्वे क्षीणमोहादिष्वपि तदसत्त्वप्रसङ्गात्, ततस्तन्मते चारित्रादीनां सिद्धावस्थायां सद्भावः । चारित्रं च चारित्रमोहावृतं तच्च तत्त्व श्रद्धासम्यग्ज्ञानपूर्णानन्द इहाविर्भावपश्चात्तापादिभ्यः क्षयोपशमावस्थां गतं च चारित्रमोहपुद्गलेषु उदयप्राप्तेषु भुक्तेषु अनुदितेषु विष्कम्भितेषु केषुचित् प्रदेशभोगितां नीतेषु, चारित्रगुणविभागानां आविर्भावो भवति, तत्र सर्वजघन्यसंयमस्थाने सर्वाकाशप्रदेशानन्तगुणतुल्यचारित्रपर्यायप्राग्भावः प्रथमं संयमस्थानम् ।
१. तत्क्षयोपशमं B. 2, V. 2. क्षयोपशमावस्थागतया च S. M., A.D.
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org