________________
श्रीज्ञानमञ्जरी नमः श्रीपूर्णानन्दस्वरूपाय । ऐन्द्रश्रीसुखमग्नेन, लीलालग्नमिवाखिलम् ।
सच्चिदानन्दपूर्णेन', पूर्णं जगदवेक्ष्यते ॥१॥ ऐन्द्रश्री इति- तेन मुनिना पाठकेन सूरिणा यथार्थक्षयोपशमोपयोगवता तथा श्रीमदर्हता सिद्धपरमात्मना २क्षायिकोपयोगवता पूर्णंसकलम्, जगत्-अशुद्धपरसंयोगोत्पन्ननवनवपर्यायगमनशीलत्वात् जगत् लीलालग्नमिव-कल्पनाकल्पितक्रीडामुग्धमिव अवेक्ष्यते-२दृश्यते इति संटङ्कः। इत्यनेन शुद्धामूर्तात्मानन्दानुभवलग्नाः परानुभवमग्नान् मूढत्वेनैव पश्यन्ति, न च परवस्तुनि किञ्चिद् भोग्यत्वमस्ति, वस्तुवृत्त्या स्वीयगुणपर्यायानुभव एव युक्त इति । अतः परस्वरूपमग्ना मुग्धा इति तात्पर्यम्, तेन क्रथंभूतेन ? ऐन्द्रश्रीसुखमग्नेन-इन्द्रो-जीवः तस्य इयम् ऐन्द्री च या श्रीश्च ऐन्द्रश्री:-आत्मगुणलक्ष्मीः तस्याः सुखम्-आनन्दः तत्र मग्नेन-एकत्वावस्थाऽऽपन्नेन, पुनः सत्-शुभं शाश्वतं वा चित्-ज्ञानं तस्य य आनन्दः तत्र पूर्णेन-ज्ञानानन्दभृतेन मुनिना जगत् मिथ्यात्वासंयममग्नं मूढं विलोक्यते, पूर्णाः अपूर्ण जगत् भ्रान्तं जानन्ति इत्यतः पूर्णानन्दात्मस्मरणेन स्वीयः पूर्णानन्दः साध्य इति ॥१॥
अथ पूर्णत्वं वस्तुनो निरूपयति । पूर्णता या परोपाधेः, सा याचितकमण्डनम् ।
या तु स्वाभाविकी सैव, जात्यरत्नविभानिभा ॥२॥ पूर्णता या परोपाधेः इति-या परोपाधेः पुद्गलसंयोगजन्यतनुधनस्वजनयशःख्यात्यादिरूपा या पूर्णता चक्रिशक्रादीनामिव सा याचितकमण्डनं-मागिताभरणशोभा तेन इभ्यत्वम्, यद् जगज्जीवैरनन्तशो भुक्त्वोच्छिष्टमात्मनोऽशुद्धताहेतुः तद्योगे स्वरूपानुभवभ्रष्टानां शोभा न,
१. पूर्णेनाऽ० S.M.(संशो०) वृत्तिकारेणायं पाठो गृहीतः । २. क्षायिकोपयोगवता न्यायसरस्वतीबिरुदधरेण श्रीमद्यशोविजयोपाध्यायेन L.D.1. विना सर्वप्रतिषु । ३. 'दृश्यते' नास्ति B-1-2, V.1-2.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org