SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अर्हम् । न्यायविशारद-न्यायाचार्य-श्रीमद्-यशोविजयोपाध्यायविरचितं श्रीज्ञानसारसूत्रम् । (श्रीमद्देवचन्द्रयतिपतिकृत-ज्ञानमञ्जरीवृत्तियुक्तम् ) अथ पूर्णाष्टकम् ॥१॥ १नमः श्रीसर्वानुयोगेभ्यः । श्रीपार्श्वेशं जिनं नत्वा, 'शुद्धस्याद्वादसंयुतम् । आत्मानन्दविशुद्ध्यर्थम्, ज्ञानसारं (रः) प्रतन्यते ॥१॥ परोपकारप्रवणा मुनीशाः, पूर्वं बभूवुर्गुणरोहणेशाः । तेषां सुवाक्यामृतपानपीनः, करोमि टीकां स्वहितां सुबोधाम् ॥२॥ नास्तीह लोके ह्युपकारयोग्यो, मत्तोऽपि संसारविधानधीरः । तथात्मबोधाय तनोमि टीकाम्, भाष्यादिशास्त्रार्थकृतावलम्बः ॥३॥ ___ इह शिष्टाचारपरिपालनाय मङ्गलादि वाच्यम्-तच्च, शुद्धात्मस्वरूपनिरूपणपटिष्ठत्वात् सर्व एव ग्रन्थो मङ्गलम्, तथापि ग्रन्था५व्युच्छित्तिसुखावबोधाय शिष्यमतिविकाशार्थं च पञ्चमङ्गलबीजभूतं श्रीमन्मुनिराजादिपञ्चपदस्मरणरूपं मङ्गलमाविष्कृतम् । गुणि-स्तवनध्वनि-अञ्जलीकरणयोगाह्लादादिकारणोत्पन्नात्मीयगुणे अर्हदादिबहुमानैकत्वरूपभावमङ्गलात्मकं कर्तुर्विद्यासिद्धिबीजम् 'ऐं' इति स्मरणरूपमङ्गलात्मकं च आद्यं पद्यं वक्ति ग्रन्थकारः १. श्रीजिनायनमः । V.2 । २. शुद्धं V.1 । ३. शोध्य. B.1.2.,V.2 । ४. निरूपणोपदिष्टत्वात् V.1.2. । ५. व्युच्छित्त B.1.2. । ६. गुणी V.2., B.2.1., S.M. I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy