________________
१३६
'पसत्थं'ति प्रशस्तेन जीवोपघातरहितत्वेन विवेकिभिः श्लाघितेन सम्यक्चारित्रेणेति भावः, अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः ॥ ४४ ॥ उत्तरा० अ०१२, गा०४२-४४) 281
__ [122] से बेमि जहा अणगारे उज्जुकडे नियागपडिवण्णे अमायं कुव्वमाणे वियाहिए । (सू. १८)
से बेमीत्यादि अस्य चायमभिसंबन्धः-इहानन्तरोद्देशके परिसमाप्तिसूत्रे पृथिवीकायसमारम्भव्यावृत्तो मुनिरित्युक्तम्, न चैतावता सम्पूर्णो मुनिर्भवति, यथा च भवति तथा दर्शयति, तथाऽऽदिसूत्रेणायं सम्बन्धः-सुधर्मस्वामी इदमाहश्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितमन्त्यच्चेदमित्येवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद् वाच्यः । से शब्दस्तच्छब्दार्थः, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग् भवति तदहं ब्रवीमि, अपिः समुच्चये, स यथा वानगारो न भवति तथा च ब्रवीमि अणगारा मोत्ति एगे पयवमाणेत्यादिनेति, न विद्यते अगारं गृहमस्येत्यनगारः, इह च यत्यादिशब्दव्युदासेनानगारशब्दोपादानेनैतदाचष्टे-गृहपरित्यागः प्रधानं मुनित्वकारणम्, तथाश्रयत्वात् सावधानुष्ठानस्य, निरवद्यानुष्ठायी च मुनिरिति दर्शयतिउज्जुकडेत्ति ऋजुः-अकुटिलः संयमो-दुष्प्रणिहितमनोवाक्कायनिरोधः सर्वसत्त्वसंरक्षणप्रवृत्तत्वाद् दयैकरूपः सर्वत्राकुटिलगतिरिति यावत्, यदिवा मोक्षस्थानगमनर्जुश्रेणिप्रतिपत्तिः सर्वसंवरसंयमात् कारणे कार्योपचारं कृत्वा संयम एव सप्तदशप्रकार ऋजुः, तं करोतीति ऋजुकृत्, ऋजुकारीत्यर्थः । अनेन चेदमुक्तं भवति - अशेषसंयमानुष्ठायी संपूर्णोऽनगारः, एवंविधश्चेदृग् भवतीति दर्शयति-नियागपडिवण्णे त्ति, यजनं-यागः नियतो निश्चितो वा यागो नियागोमोक्षमार्गः, संगतार्थत्वाद् धातोः सम्यग्ज्ञानदर्शनचारित्रात्मतया गतं संगतमिति, तं नियागं-सम्यग्दर्शनज्ञानचारित्रात्मकं मोक्षमार्ग प्रतिपन्नो नियागप्रतिपन्नः, पाठान्तरं वा 'निकायप्रतिपन्नो' निर्गतः काय:- औदारिकादिर्यस्माद्-यस्मिन्वा सति स निकायो-मोक्षस्तं प्रतिपन्नो निकायप्रतिपन्नः । तत्कारणस्य सम्यग्दर्शनादेः स्वशक्त्यानुष्ठानात् स्वशक्त्यानुष्ठानं चामायाविनो भवतीति दर्शयति अमायं कुव्वमाणे त्ति माया-सर्वत्र स्ववीर्यनिगूहनम्, न माया अमाया, तां कुर्वाणः,
अनिगूहितबलवीर्यः संयमानुष्ठाने पराक्रममाणोऽनगारो व्याख्यात इति अनेन च . तज्जातीयोपादानादशेषकषायोपगमोऽपि द्रष्टव्य इति, उक्तं च-"सोही य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org