________________
आह-अधोभागे परिमण्डलः, समन्ताद् वृत्त इत्यर्थः । कस्य पुनः कार्यस्यासौ क्षम इत्याह-जलादीनामित्यादि । जलघृतक्षीरादीनामाहरणे देशाद् देशान्तरसञ्चारणे समर्थःशक्तः आनीतानां च धारणे प्रत्यलः । उत्तरेत्यादि । पाकजरक्तादिगुणपरिसमाप्त्या निष्पन्नद्रव्यविशेष इति । न द्रव्यं सामान्यमात्रम्, किं तर्हि ? द्रव्यविशेषः, परमार्थे सति, वाचा न संवृत्तिसतीति, तस्मिन् एवमात्मके एकस्मिन् विशेषाः शुक्लपीतादयः कनकरजतादयः खण्डहुण्डादयो वा तद्वति तज्जातीया:- तत्प्रकाराः व्यावर्णितघटप्रकाराः तेषु च सर्वेषु-लोकप्रसिद्धेषु अविशेषात् अभेदेन परिज्ञानं-निश्चितावबोध: नैगमः देशसमग्रग्राही नैगम इति, पूर्वाभिहितलक्षणप्रपञ्चोऽयं सामान्यविशेषवैचित्र्यप्रदर्शनार्थः।।
अथ संग्रहः कथं घटमिच्छतीत्याह
भा०-एकस्मिन् वा बहुषु वा नामादिविशेषितेषु साम्प्रतातीतानागतेषु घटेषु सम्प्रत्ययः संग्रहः ॥
टी०-एकस्मिन्नित्यादि । एकस्मिन् घटे बहुषु घटेषु वा नामादिविशेषितेष्विति नामस्थापनाद्रव्यभावघटेष्वित्यर्थः । साम्प्रतेषु-वर्तमानेष्वतीतेषुअतिक्रान्तेष्वनागतेषु-आगामिषु घटेषु यः सम्प्रत्ययः-सामान्यं घटो घट इति परिज्ञानं स संग्रहः, यस्मात् सामान्यमेव घटादिरूपेण निर्भासते, न सामान्यादन्ये विशेषाः सन्ति ॥
व्यवहाराभिप्रायप्रकटनायाह
भा०-तेष्वेव लौकिकपरीक्षकग्राह्येषूपचारगम्येषु यथास्थूलार्थेषु सम्प्रत्ययो व्यवहारः ॥
टी०-तेष्वित्यादि । एकद्विबहुत्वनामादिरूपेषु लोके विदिता लौकिकाः परीक्षकत्वेन ज्ञाताः लौकिकपरीक्षकाः-पर्यालोचकाः तेषां ग्राह्याः-आदेयाः जलाद्याहरणार्थं ये घटास्तेषु, उपचारगम्येष्विति लोकक्रियाधारेषु, यथास्थूलार्थेष्विति सूक्ष्मसामान्योपसर्जनेषु, यतोऽस्य विशेषैरेव व्यवहारो भूयसा, न सामान्येनेति ॥
ऋजुसूत्रनयमतं विवृणोतिभा०-तेष्वेव सत्सु साम्प्रतेषु सम्प्रत्ययः ऋजुसूत्रः ॥
टी०-तेष्वेवेत्यादि । घटेषु सत्सु-विद्यमानेषु वर्तमानसमयावधिकेषु सम्प्रत्ययः ऋजुसूत्र इति ॥
अधुना सांप्रताभिप्रायं निरूपयति -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org