SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ७४ ऋजुसूत्रः, एष च भावविषयप्रकारातीतानागतविषयवचनपरिच्छेदे प्रवृत्तः सर्वविकल्पातीतातिसम्प्रमुग्धसंग्रहाविशिष्टत्वाद् व्यवहारस्यायथार्थतां मन्यमानः अचरणपुरुषगरुडवेगव्यपदेशवद् वर्तमानक्षणसमवस्थितिपरमार्थवस्तु व्यवस्थापयति, अतीतानागताभ्युपगमस्तु खरविषाणास्तित्वाभ्युपगमान्न भिद्यते, दग्धमृतापध्वस्तविषयश्चानाश्वासो न कस्यचिदपि स्यात्, अघटादिलक्षणमृदाद्यनर्थान्तरत्वाच्च घटादिकालेऽपि घटादिनैव स्यात् न च तदेव तदेकं मृद् द्रव्यमन्यथा वर्तते, किं तहि ? अन्यदेव, अन्यप्रत्ययवशाद् वाऽन्यथोत्पद्यत इति न पिण्डादिक्रियाकाले कुम्भकारव्यपदेशः, यदि चान्यदपि कुर्वत्रन्यस्य कर्तेत्युच्यते पटादिकरणप्रवृत्तोऽपि प्रत्याख्यातविज्ञानान्तरसम्बन्धः स्यादेव कुम्भकारः, ततश्चाशेषलोकव्यवहारोपरोध इत्यतः पूर्वापरभागवियुतः सर्ववस्तुगतो वर्तमानक्षण एव सत्यः, नातीतमनागतं चास्तीति, एतद्दर्शननिबन्धनं चैतदुपदिश्यते, "पिब च खाद च" इत्यादि "एतावानेष पुरुषः" इत्यादि वेति । शब्दनयः-शब्द एव सोऽर्थकृत-वस्तुविशेषप्रत्याख्यानेन शब्दकृतमेवार्थविशेषं मन्यते, यद्यर्थाधीनो विशेषः स्यात् न शब्दकृतः, तेन घटवर्तमानकाले घट एव निर्विशेषः स्यात् कर्मकरण-सम्प्रदानापादनस्वाम्यादिविशेषान् नाप्नुयात्, ततश्च घटं पश्यत्येवमादिकारककृतो व्यवहारः छिद्येत, समानलिङ्गादिशब्दसमुद्भावितमेव वस्त्वभ्युपैति नेतरत्, नहि पुरुषः स्त्री, यदीष्येत वचनार्थहानिः स्यात्, भेदार्थं हि वचनम्, अतः स्वातिः तारा नक्षत्रमिति लिङ्गतः, निम्बाम्रकदम्बा वनमिति वचनतः, स पचति त्वं पचसि अहं पचामि पचावः पचामः इति पुरुषतः, एवमादि सर्वं परस्परविशेषव्याघातादवस्तु, परस्परव्याघाताच्चैवमाद्यवस्तु प्रतिपत्तव्यम्, यथा शिशिरो ज्वलनः, तथा विरुद्धविशेषत्वात् तटस्तटी तटमित्यवस्तु, रक्तनीलमिति यथा, यद् वस्तु तदविरुद्धविशेषमभ्युपयन्ति सन्तः यथा घटः कुटः कुम्भ इति तथा चोच्यते-यत्र ह्यर्थो वाचं न व्यभिचरत्यभिधानं तत्, एवमयं समानलिङ्गसङ्ख्यापुरुषवचनः शब्दः, एतद्दर्शनानुगृहीतं चोच्यते-"अर्थप्रवृत्तितत्त्वानां शब्द एव निबन्धनम्" इति, एवमेते मूलनयाः पञ्च नैगमादयः । अत्र चाद्याश्चत्वारोऽर्थप्रधानत्वादर्थतन्त्रत्वात्, शब्दनयः पुनरर्थोपसर्जनः शब्दप्रधानः शब्दतन्त्र इति ॥२४॥ अधुनैषां यथासम्भवं भेदप्रतिपिपादयिषयाऽऽहसूत्रम्-आद्यशब्दौ द्वित्रिभेदौ ॥१-३५॥ टी०-तत्र आद्यशब्दावित्यादि । तत्र नैगमादिषु पञ्चसु यौ आद्यशब्दौ तौ यथासङ्ख्यं द्वित्रिभेदौ भवतः, आद्यौ च तौ शब्दौ चेति समानाधिकरणसमासाशङ्कायामाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy