________________
७३
इति च अनेकधर्मकदम्बकोपेतस्य वस्तुन एकेन धर्मेणोनयनमवधारणात्मकं नित्य एवानित्य एवेत्येवंविधं नयव्यपदेशमास्कन्दति, स चाध्यवसायविशेष इति । निगम्यन्ते-परिच्छिद्यन्ते इति निगमाः-लौकिका अर्थाः, तेषु निगमेषु भवो योऽध्यवसायो ज्ञानाख्यः स नैगमः । स च सामान्येनापि व्यवहरति सामान्यबुद्धिहेतुना सामान्यवचनहेतुना च, अत्यन्तं भेदेभ्योऽन्यत्वरूपेण सत्तामात्रेण, तथा विशेषेणापि विशेषबुद्धिहेतुना विशेषवचनहेतुना च अत्यन्तं सामान्यादन्यत्वरूपेण व्यवहरति परमाणुनिष्ठितेन, तथा सामान्यविशेषेणापि गवादिना सर्वगोपिण्डेष्वनुवृत्त्यात्मकेन अश्वादिव्यावृत्त्यात्मकेन च व्यवहरति, यथा लोको व्यवहरति तथाऽनेन व्यवहर्तव्यमिति, लोकश्चोपदिष्टैः प्रकारैः समस्तैर्व्यवहरति । प्रवचने च वसतिप्रस्थकनिदर्शनद्वयेन विभावितः, काणभुजराद्धान्तहेतुरवगन्तव्यः । अभेदेन संग्रहात् सर्वस्य संगृह्णाति इति संग्रहः । यदि भवनाभिसम्बद्धस्यैव भावस्य भावत्वमभ्युपगम्यते ततः परिसमापितात्मस्वरूपित्वाद् भावस्य भ्रान्तिसमुपनिबन्धनघटादिविकल्पप्रकल्पनानर्थक्यम्, यदि घटादि वस्त्वपि भवनप्रवृत्तितन्त्रमेवेत्येवं सति भाव एव, तदनन्तरत्वात् तत् स्वात्मवत्, भवनार्थान्तरत्वे वा व्योमोत्पलादिवदसत्त्वं विकल्पानां रासभविषाणादिसत्त्वं वा घटादिवद् भवनानन्तरत्वात्, एतदर्शनपुरस्सरा एव च सर्वनित्यत्वैकत्वकारणमात्रत्वादिवादाः कालपुरुषस्वभावदैवादयश्चेति भावः। निश्चयासद्गृहीतानां विधिपूर्वकमवहरणं व्यवहारः । यदि घटादिभेदश्रुत्या स्वसामान्यानुबद्धस्य निरस्तसामान्यान्तरसम्बन्धस्य श्रूयमाणत्वानुगुणमेव ग्रहणं न स्यात्, किन्तु सर्वव्यपदेशविशेषाभिव्यङ्ग्य भाव एव तेन तेन रूपेणाभिव्यज्यते, ततो घटाद्यन्यतरभेदश्रुतौ सर्वरूपभेदभावप्रतीतिप्रसङ्गस्ततश्च घटपटोदकादिरूपव्यतिकरभावान्निश्चयाभावप्रसङ्गः, उपदेशक्रियोपभोगापवर्गव्यवस्थादीनां चाभावात् सर्वसंव्यवहारोच्छेदः, सर्वविशेषव्याकरणे च निर्निबन्धनभवनाभावाद् भावाभाव एव, अविशेषत्वाभेदत्वानिरूप्यत्वादितश्च नैवासौ भावः खरविषाणादिवत्, तस्माद् व्यवहारोपनिपतितसामान्योपनिबन्धनं तु यदेव यद् यदा द्रव्यं पृथिवी घटादि व्यपदिश्यते तदेव तत् तदा त्रैलोक्याविभिन्नरूपं सततमवस्थितापरित्यक्तात्मसामान्य महासामान्यप्रतिक्षेपेण संव्यवहारमार्गमास्कन्दतीति । एवंविधवस्तूपनिबन्धनैव च वर्णाश्रमप्रतिनियतरूपा यमनियमगम्यागम्यभक्ष्याभक्ष्यादिव्यवस्था, कुम्भकारादेश्च मृदानयनावमर्दनशिवकस्थासकादिकरणप्रवृतौ वेतनकादिदानस्य साफल्यम्, अव्यवहार्यत्वाच्च शेषमवस्तु, व्योमेन्दीवरादिवदिति । ऋजुसममकुटिलं सूत्रयति ऋजु वा श्रुतम् आगमोऽस्येति सूत्रपातनवद् वा ऋजुसूत्रः, यस्मादतीतानागतवक्रपरित्यागेन वर्तमानपदवीमनुधावति, अतः साम्प्रतकालावरुद्धपदार्थत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org