SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ६८ कुम्भस्य । कुतः ? प्रस्तावात् कुम्भबुद्धिहेतुत्वात् । इदमुक्तं भवति-सर्वोऽपि बुद्धौ सङ्कल्प्य कुम्भादिकार्यं करोतीति व्यवहारः, ततो बुद्ध्याऽध्यवसितस्य कुम्भस्य चिकीर्षितो मृन्मयकुम्भस्तबुद्ध्यालम्बनतया कारणं भवत्येव । न च वक्तव्यम्अनिष्पन्नत्वादसन्नसौ तबुद्धेरपि कथमालम्बनं स्यात् ? द्रव्यरूपतया तस्य सर्वदा सत्त्वादिति । ननु य एवेह मृन्मयकार्यरूपो घटस्तस्यैव कारणं चिन्त्यत इति प्रस्तुतम्, बुद्ध्याऽध्यवसितस्तु तस्मादन्य एव, इति तत्कारणाभिधानमप्रस्तुतमेव । सत्यम्, भाविनि भूतवदुपचारन्यायेन तयोरेकत्वाध्यवसानाददोषः । स्थासकोशादिकरणकालेऽपि हि "किं करोषि' इति पृष्टः कुम्भकारः 'कुम्भं करोमि' इत्येतदेव वदति, बुद्ध्यध्यवसितेन निष्पत्स्यमानस्यैकत्वाध्यवसायादिति । अथवा, भव्यो योग्य: स्वरूपलाभस्येति शक्य उत्पादयितुम्, अतः सुकरत्वात् कार्यमप्यात्मनः कारणमिष्यते । अवश्यं च कर्मणः कारणत्वमेष्टव्यम्, यद्-यस्मात् समस्तकारणसामग्रीसंनिधानेऽपि नैवमेवाकाशार्थं प्रारम्भः, किन्तु विवक्षितकार्यार्थम्, अतस्तदविनाभावित्वात् तत्क्रियायाः कार्यमप्यात्मनः कारणमिति । एतदेव भावयति-बाह्यानि कुलाल-चक्र-चीवरादीनि यानि निमित्तानि तदपेक्षं क्रियमाणकालेऽन्तरङ्गबुद्ध्यालोचितं कार्यं भवति स्वस्यात्मनः कारणं स्वकारणम्, अन्यथा यदि बुद्ध्या पूर्वमपर्यालोचितमेव कुर्यात् तदाऽप्रेक्षापूर्वे शून्यमनस्कारम्भविपर्ययो भवेत्, घटकारणसंनिधानेऽप्यन्यत् किमपि शरावादिकार्यं भवेद्, अभावो वा भवेत्-न किञ्चित् कार्यं भवेदित्यर्थः । तस्माद् बुद्ध्यध्यवसितं कार्यमप्यात्मनः कारणमेष्टव्यम् । किं बहुना ?, यथा यथा युक्तितो घटते तथा तथा सुधिया कर्मणः कारणत्वं वाच्यम्, अन्यथा कर्मणोऽकारकत्वे करोतीति कारकम् इति षण्णां कारकत्वानुपपत्तिरेव स्यादिति ।। 'भूपिण्डेत्यादि' भूरपादानम्, पिण्डापायेऽपि ध्रुवत्वात्, अथवा, विवक्षया पिण्डोऽपादानम्....तद्गतशर्करादीनामपायेऽपि विवेकेऽपि ध्रुवत्वात् अथवा, घटापायाच्चक्रमापाको वाऽपादानमिति । 'वसुहेत्यादि' घटस्य चक्र संनिधानमाधारः, तस्यापि वसुधा, तस्या अप्याकाशम्, अस्य पुनः स्वप्रतिष्ठत्वात् स्वरूपमाधारः, इत्येवमादि यत् किमप्यानन्तर्येण परम्परया वा सन्निधानमाधारो घटस्य विवक्ष्यते तत् सर्वमपि तस्य कारणम्, तदभावे तस्य घटस्य यद् यस्मादसिद्धिः ॥ इत्येकोनविंशतिगाथार्थः ॥ तदेवमुक्तं द्रव्यकारणम् ॥२११२।। ॥२११३।। २११४॥ २११५।। २११६॥ २११७|| २११८॥ (विशेषा० गा०२११२१८) । 15/7. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy