________________
अयमर्थः-परात्मनोविवेकाभावे परम् आत्मत्वेनाध्यास्य रज्यन्तो द्विषन्तो मुह्यन्तश्चात्यन्तप्रत्यस्तमितविविक्तात्मख्यातित्वाद् आत्मानं कर्तारं मन्यमाना नानारम्भान् समनुष्ठाय तद्विपाकवेदनाविधुरीकृता अनन्तकालं संसृतिनिवासं नोज्झन्तीति सोऽयमभेदज्ञानानुभावः ॥९॥ (अ०बि०द्वा०१श्लो०९) 14/1 [5] सुक्कं पिऊणो माऊए, सोणियं तदुभयपि संसटुं।
तप्पढमयाए जीवो, आहारइ तत्थ उप्पन्नो ॥२५४॥ [शुक्रं पितुः मातुः शोणितं तदुभयमपि संसृष्टम् ।
तत्प्रथमतया जीव, आहारयति तत्रोत्पन्नः ॥२५४॥ ] गर्भोत्पन्नः किमाहारयतीत्याह-सुक्केत्यादि तच्च तदुभयं च....तदुभयंशुक्रशोणितलक्षणं संसृष्टं-मिलितं तत्र गर्भे उत्पन्नजन्तुरभ्यवहरति । कयेत्याह तच्च तत् प्रथमं च तत्प्रथमं तद्भावस्तत्ता तया-तत्प्रथमतया प्रथममुत्पन्न इत्यर्थः । (भवभावना गा० २५४) 14/4
को कायसुणयभक्खे, किमिकुलवासे य वाहिखित्ते य । देहम्मि मच्चुविहुरे, सुसाणठाणे य पडिबंधो ॥ ४२१ ।। [कः काकश्वभक्ष्ये, कृमिकुलावासे च व्याधिक्षेत्रे च । देहे मृत्युविधुरे, श्मशानस्थाने च प्रतिबन्धः ॥ ४२१ ॥]
ततो जिनवचनवासितान्तःकरणानां देहे कः प्रतिबन्धः स्यात् ? न कश्चिदित्यर्थः । कथंभूते देहे ? इत्याह-काककुक्कुरादिभक्ष्ये केवलकृमिकुलावासे समस्तव्याधिक्षेत्रे मृत्युविधुरे-मरणावस्थायां निःशेषकार्यकरणाक्षमे पर्यन्ते श्मशाने स्थानं यस्य तत्तथा तस्मिश्चैवंभूत इति । एवं च नाम देहस्याशुचित्वं येन तत्सम्बन्धेऽन्यच्छुभमपि वस्तु अशुचित्वं प्रतिपद्यत इति दर्शयति । [भ०भा० गा० ४२१] 14/4 [60] एतदेवाह
अण्णोण्णाणुगयाणं, इमं व तं च त्ति विभयणमजुत्तं । जह दुद्ध-पाणियाणं, जावंत विसेस पज्जाया ॥४७॥
अन्योन्यानुगतयोः-परस्परानुप्रविष्टयोः आत्मकर्मणोः इदं वा तद् वा इति इदं कर्म अयमात्मा इति यद्विभजनं-पृथक्करणं तद् अयुक्तम्-अघटमानकम् प्रमाणाभावेन कर्तुमशक्यत्वात् । यथा दुग्धपानीययोःपरस्परप्रदेशानुप्रविष्टयोः । किंपरिमाणोऽयमविभागो जीवकर्मप्रदेशयोः ? इत्याह-यावन्तो विशेषपर्यायास्तावान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org